________________
२०
महाकविश्रीरामचन्द्रविरचितं कृत्रिमैडम्बरैर्बाह्यः शक्यस्तोषयितुं जनः ।
आत्मा तु वास्तवैरेव हृतोऽयं परितुष्यति ॥ १७ ॥ तदयं बाह्यो लोकः साहसं यादृशं तादृशं वा मयि सम्भावयतु, मम पुनरात्माऽपि दुःखरक्षणीयः । तदेतस्मिन्नवसरेऽहं पञ्चपरमेष्ठिनमस्कारस्मरणेनाऽऽत्मनो रक्षा करोमि । (प्रकाशम् ) आर्य ! मण्डलधूपार्थमुपनयत निर्गुण्डिकापत्राणि यावदहं ध्यानमादधे । ( ध्यानं नाटयति ।)
( प्रविश्य बन्धुला निर्गुण्डीपत्राण्युपनयति । मकरन्दः क्षणेन मण्डलं प्रणम्य कुण्डलाभ्यां पूजयति । सर्वे सविस्मयमालोकयन्ति । )
श्रेष्ठी - ( अपवार्य ) सुन्दरक ! किमिदम् ? । सुन्दरकः - तदेवेदम्, यन्मया विपिनादागतेन युष्मभ्यमावेदितम् । श्रेष्ठी- सम्भवति कितवस्य चौर्यकर्म ।
कोरकः - ( अपवार्य ) आर्य ! महतः कर्मणः साम्प्रतमारम्भाः , तदधुना न किमपि वक्तव्यम्।
अपराधोऽपि सोढव्यो वाञ्छितार्थविधायिनः ।
दहन्नप्यग्निना तुन्दं गुल्मिभिः पूज्यते भिषक् ॥ १८॥ मल्लिका - ( अपवार्य ) 'बन्धुले ! दिट्ट किं पि तुमए ?। बन्धुला - तं दिठं जं मणोरहेहिं पि न दिळं । मल्लिका -"ता जीयति मल्लियाए भागहेयाई ।
श्रेष्ठी - ( अपवार्य बन्धुसुन्दरी प्रति ) प्रिये ! उत्तिष्ठ, साधं व्रजामः । वयमेवानयोर्मल्लिका-मकरन्दयोर्बाह्याः।।
बन्धुसुन्दरी- अज्जउत्त ! जं तुर्व भणासि तं सच्चं, पुरवं पि बंधुलाए ईदिसं किं पि मह कहिदं ।
मकरन्दः - रजनिरिदानीम् , अपसरतु बाह्यो लोकः । मल्लिकाभागधेयैरस्माभिश्चात्र स्थातव्यम् ।
( मल्लिका-मकरन्दवर्ज सर्वे निष्क्रान्ताः ।) १ बन्धुले ! दृष्टं किमपि त्वया ? । २ तद् दृष्टं यद् मनोरथैरपि न दृष्टम् । ३ तद् जीवन्ति मल्लिकाया भागधेयानि । ४ आर्यपुत्र ! यत् त्वं भणसि तत् सत्यम् , पूर्वमपि बन्धुलया ईदृशं किमपि मम कथितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org