SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ मल्लिकामकरन्दनाटकम् । मकरन्दः - (स्वगतम् ) न केवलं त्वया, अनयाऽप्यात्मा मे समर्पितः। (पुनः सविधादम् ) धिग् मां कृतघ्नम्, नन्वहमुपवनदृष्टया युक्त्या सत्यङ्कारितः कथमेतां स्पृहयामि ? । (प्रकाशम् ) अम्ब ! सर्वमप्यहमाधास्ये यदि मण्डलोपकरणानि सन्निधास्यन्ते । बन्धुसुन्दरी- 'हला बंधुले ! किं अज्ज वि न सुंदरओ समागच्छदि ? । मकरन्दः - (साशङ्कमात्मगतम् ? ) बन्धुलेति शब्दः श्रुतपूर्वः, स्वरोऽप्ययं मल्लिकायास्तादृशो यादृशस्तस्या विपिनयोषितः। ततो यदि सैवेयं तदा सम्मुखीनः स भगवान् विरश्चिः । प्रयोजनं चैतदात्मीयमेव । (पुनः साभिलाषं मल्लिकामवलोक्य स्वगतम् ) चलकमलविलासाभ्यासिनी नेत्रपत्रे दश[न]वसनभूमिबन्धुजीवं दुनोति । स्मरभरपरिरोहत्पाण्डिमागूढरूढगुतिविजितमृगाङ्का मोदते गण्डभित्तिः ॥ १६ ॥ (प्रविश्य सुन्दरक उपकरणान्युपनयति । ) मकरन्दः - उपविशतु निवसितसदशैकवसनाङ्गी मल्लिका, येन पुरो मण्डलमारभ्यते । मल्लिका - ( सात्त्विकभावान् नाटयन्ती) अंब ! देहि मे हत्थावलंबणं जेण उडेमि । बन्धुसुन्दरी - (मकरन्द प्रति ) पुत्तया ! एदाए पुरदो वि तुमं हत्थावलंबणं, तं दाणिं पि होहि । ( मकरन्दः सरोमाञ्चं मल्ल्लिकामुत्थाप्य पूर्वाभिमुखीमुपवेशयति ।) मल्लिका- (स्वगतम् ) तादिसो एदस्स हत्थफंसो जादिसो मह हियर्य: संवाहयंतस्स उववणपुरिसस्स । साहस पि तादिस ज्जेव । ता किं नेदं ?। मकरन्दः - ( मण्डलमाधाय स्वगतम् ) १ हला बन्धुले ! किं अद्यापि न सुन्दरकः समागच्छति ? । २ अम्ब ! देहि मे हस्तावलम्बनं येन उत्तिष्ठामि । ३ पुत्रक ! एतस्याः पुरतोऽपि त्वं हस्तावलम्बनम्, तदिदानीमपि भव । ४ तादृश एतस्य हस्तस्पर्शः यादृशः मम हृदयं संवाहयतः उपवनपुरुषस्य । साहसमपि तादृशमेव । तत् किं नु इदम् ? । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002644
Book TitleMallikamakarandanatakam
Original Sutra AuthorRamchandra Mahakavi
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages212
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy