SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ महाकविश्रीरामचन्द्रविरचित मकरन्दः - ( सस्पृहम् ) चक्षुर्वाष्पविकज्जलं करतलव्यासङ्गखण्डगुति गण्डश्रीरधरः खरः प्रसृमरैः सूत्कारतारोमिभिः । आहारप्रतिरोधकीकससिरामात्रा च गात्रावनि दृष्टिं प्रीणयते तथापि सुदती लेखेव शीतत्विषः ॥१४॥ मल्लिका - ( स्वगतम् ) 'अम्मो !, उववणदिट्टपुरिसपिम्मकीलिदं पि मे हिदयं कधं पुणो पुणो एदम्मि वच्चदि ? । अवि य एस किल लोयाणं पवादो अन्नत्थ रागिणीओ रच्चंति न वम्महे वि महिलाओ। रुच्चइ न णाम राया वि तवणरत्ताण नलिणीणं ॥१५॥ सो उण महं दाणि विवरीदो जादो।। बन्धुसुन्दरी-वच्छे ! सत्था होहि । एस दे सव्वं पि सरीरवियण दाहज्जरं च अवणइस्सदि।। श्रेष्ठी - प्रिये !अत्यल्पमभिदधासि, देवतापहारमप्येष वत्साया अपनेष्यते । मल्लिका - ( साक्षेपम् ) 'ताद ! एदेणं ज्जेव अवहरिदा । किं देवदा अवहरिस्सदि ?। बन्थुसुन्दरी - ( साशङ्कम् ) अन्नउत्त ! किं एसा ईदिसं लज्जायरं जंपदि । श्रेष्ठी - प्रिये ! मा भैषीः, दाहज्वराभिभवेनात्स्वमायितमिदम् । बन्धुसुन्दरी-(सदैन्यम् ) पुत्तया ! एसा मह धूया तुम समप्पिदा, तहा कहं करेहि जहा निव्वुई लहइ । १ आश्चर्यम् , उपवनदृष्टपुरुषप्रेमकीलितमपि मे हृदयं कथं पुनः पुनः एतस्मिन् व्रजति ? । अपि च एष किल लोकानां प्रवादः - अन्यत्र रागिण्यः रज्यन्ते न मन्मथेऽपि महिलाः । रोचते न नाम राजाऽपि तपनरक्ताभ्यो नलिनीभ्यः ॥१५॥ स पुनः मम इदानीं विपरीतो जातः । २ वत्से ! स्वस्था भव, एष ते सर्वामपि शरीरवेदनां दाहज्वरं च अपनेष्यते । ३ तात ! एतेन एव अपहृता । किं देवता अपहरिष्यति ? । ४ आर्यपुत्र ! किं एषा ईदृशं लज्जाकरं जल्पति ? । ५ पुत्रक ! एषा मम पुत्री तुभ्यं समर्पिता, तथा कथं कुरु यथा निर्वृतिं लभते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002644
Book TitleMallikamakarandanatakam
Original Sutra AuthorRamchandra Mahakavi
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages212
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy