________________
मल्लिकामकरन्दनाटकम् । मल्लिका -'हला लवंगिके ! अवणेहि वच्छत्थलादो नलिणीवत्ताई, करेहि सहाणेसु मे निवसणाई। देहि मे हत्थावलंबणं जेण अंबाए तादस्स य अब्भुट्ठाणं करेमि ।
श्रेष्ठी -वत्से ! पर्यङ्कस्थिता यथासुखमारस्त्र । मास्माभ्युत्थाने क्लेशमातथाः । ( मकरन्दं प्रति, अपरं प्रति ) दाहज्वरेण सर्वाङ्गीणमभिभूतायास्तदेतदष्टमं दिनं वत्साया एतस्याः। मकरन्दः - (स्वगतम् ) केयूराणि मृणालजानि कुचयोः श्रीषण्डवारिच्छटाः ।
· शय्या बालसरोजिनीदलमयी हारोऽपि रम्भोद्भवः। अङ्गं सान्द्रजलार्द्रमङ्गणभुवो मल्लीवितानाञ्चिता
वेषः सैष वियोगरोगविषमामस्या दशां शंसति ॥१०॥ माता-पितरौ पुनरपहारदुःखमावेदयतः। तत् किमिदं परस्परविरुद्धम् ? । मल्लिका-(मकरन्दमवलोक्य स्वगतम् )
'एदस्स देहलहिँ काउं विहिणा विरम्मिया विरई । इहरा कह कस्स वि नत्थि इत्थ एयारिसं रूवं ? ॥११॥
(पुनः सस्पृहम्) 'जइ कह वि रई पिच्छिज्ज एयमसरिससरीरसुंदेरं ।
सिढिलीकरिज्ज ता तम्मि पिम्मगंठिं अगंगम्मि ॥१२॥ "अहवा
ववसाओ च्चिय पुरिसाणमणुवमो मंडणं सरीरस्स।
रूवं पि पुणो जइ हुज्ज ता जियं हरिणनयणाहिं ॥१३॥ १ हला लवङ्गिके ! अपनय वक्षःस्थलाद् नलिनीपत्राणि, कुरु स्वस्थानेषु मे निवसनानि । देहि मे हस्तावलम्बनं येन अम्बायाः तातस्य च अभ्युत्थानं करोमि ।
२ एतस्य देहयष्टिं कृत्वा विधिना विरचिता विरतिः ।।
इतरथा कथं कस्यापि नास्ति अत्र एतादृशं रूपम् ? ॥११॥ ३ यदि कथमपि रतिः प्रेक्षेत एतमसदृशशरीरसौन्दर्यम् । __ शिथिलीकुर्यात् तत् तस्मिन् प्रेमग्रन्थि अनङ्गे ॥ १२ ॥ ४ अथवाव्यवसाय एव पुरुषाणामनुपमो मण्डनं शरीरस्य । रूपमपि पुनः यदि भवेत् तद् जितं हरिणनयनाभिः ॥१३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org