SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ महाकविश्रीरामचन्द्रविरचित ___मकरन्दः -(स्वगतम् ) महासाहसैकसाध्योऽयमों न बाह्यमाडम्बरमपेक्षते । तथापि तदवश्यमाधेयम् । पयांसि भूरुहां हेतुर्न पुनर्गर्जितारवः । माघे तथापि गर्जन्ति क्षोभाय जनचेतसाम् ॥८॥ (प्रकाशम् ) आर्य ! अनादिसिद्धे मीमांसा विश्ववर्त्मनि का सताम् ? । रूपजीवाः स्त्रियः सृष्टाः पुमांसो न पुनः कथम् ? ॥९॥ श्रेष्ठी - प्रस्तुतमभिधीयताम् ।। मकरन्दः -प्रस्तुतमिदम्-'मन्त्रमण्डल पूजापूर्वकं सर्वमनुष्ठानम्' इति भवतामपि प्रसिद्धम् । अतो मण्डलोपकरणेषु विचारो नः कर्तव्यः । श्रेष्ठी -अवश्यं कर्त्तव्यः । मकरन्दः -तर्हि समानयत सद्यःप्रसूतव्याघ्रीक्षीरम् , सम्पादयत विन्ध्यचमरीशृङ्गगोरोचनाम् , ढौकयत वानेयगजप्रथमदानवारि । श्रेष्ठी - अवशिष्यते किमपि ? । मकरन्दः -अवशिष्यते षोडशवर्षदेशीयखल्वाटपुरुषचितावह्निः । श्रेष्ठी -( शिरो धूनयित्वा) असुकरसङ्घ[ट]नः सर्वोऽप्युपकरणप्रपश्च:, विशेषतो वह्निरयम् । भवतु, कोऽत्र भोः ! ?। (प्रविश्य ) सुन्दरकः - एषोऽस्मि । ( श्रेष्ठी सुन्दरस्य कर्णे एवमेव ) (सुन्दरो निष्क्रान्तः ।) श्रेष्ठी -यावदुपकरणानि सन्निधीयन्ते तावदागच्छत यूयं वच्छाया मल्लिकायाः समीपम् । हला लवङ्गिके ! गत्वा ब्रूहि वत्साम्-समयोऽयमस्मदागमनस्य । (नेपथ्ये) 'समओ वट्टदि ता एदु तादो । ( सर्वे गृहोपवनमुपविशन्ति ।) ( ततः प्रविशति विरहावस्थां नाटयन्ती मल्लिका लवङ्गिकाप्रभृतिकश्च परिवारः । ) • १ समयो वर्त्तते तद् एतु तातः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002644
Book TitleMallikamakarandanatakam
Original Sutra AuthorRamchandra Mahakavi
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages212
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy