SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ मल्लिकामकरन्दनाटकम् | १५ श्रेष्ठी - तदहर्जातां नामाङ्कितमहार्घ्यङ्गुलीयकप्रसाधितपाणिपल्लवां मस्टघुसृणरसलिखिताक्षर भूर्जकण्डकमण्डितसव्येतरकलाचिकां उत्फुल्लमल्लिकाविटपच्छायायां कन्यकामे कामद्राक्षम् । ( सर्वे सविस्मयमाकर्णयन्ति । ) मकरन्दः ततस्तत: ? । श्रेष्ठी - अत्यद्भुतप्रसूतप्रभूतप्रमोदमेदुरान्तःकरणश्चाहं 'किमेतत् ?' इति चमत्कारतिरोहितविधेयनिर्णया निस्तरङ्गेण चक्षुषा क्षणमेकं तां वीक्षितवान् । ( सविनयम् ) ततस्तत: ? । कोरकः - श्रेष्ठी - अनन्तरं च महता प्रयत्नेन पाणिपल्लवाभ्यामादाय तामेतस्या बन्धुसुन्दर्याः समुपनीतवान् । मल्लिकाच्छायायां प्राप्तेति सा मल्लिकानाम्ना व्युपदिश्यते । - बन्धुसुन्दरी - ' देवदापसादं मन्नंदीए मए वितणयाणिव्वि से सेणं वच्छल्लेणं इत्तियं कालं जाव परिपालिदा । मकरन्दः (स्वगतम् ) निश्चितमियं दुराचारसञ्जातगर्भायाः कस्याश्चिद् विद्याधर्याः पुत्री । (प्रकाशम् ) किंनामाङ्कितान्यङ्गुलायकानि ? किमक्षरं च भूर्जकण्डकम् ? - इति ज्ञायते ? | श्रेष्ठी - ज्ञायते, निरूपयतु च भवानपि । ( अङ्गुलीयकानि भूर्जकण्डकं च समर्पयति । ) मकरन्दः –( अङ्गुलीयकान्यवलोक्य) कथं महाराजवैनतेयनामाङ्कितान्यङ्गुलीकानि ? | (भूर्जकं च वाचयति । ) षोडशवर्षान्ते चैत्रकृष्णचतुर्दश्यां पुनरियं मया परिणेतारं रक्षितारं च व्यापाद्य प्रसभमपहर्त्तव्या । मकरन्दः –( सभयमात्मगतम् ) अनीषत्करं निवारणमस्मादृशैरेतस्या दिव्यकन्यकायाः । तथापि प्रतिज्ञापरित्यागस्त्रपामावहति । ( प्रकाशम् ) अङ्गुलीयकभूर्जकण्डकावलोकनेन ज्ञातम् ' असुकरोऽयं विधिः ' । तथाप्यस्ति मे मान्त्रिकी शक्तिः, ततो [न] भवद्भिः प्रयोजननिष्पत्तिसन्देहः कार्यः । श्रेष्ठी - भवदाकारदर्शनसमयेऽपि अस्माभिनिर्णीतोऽयमर्थः । ३ देवताप्रसादं मन्यमानया मयाऽपि तनयानिर्विशेषेण वात्सल्येन इयन्तं कालं यावत् परिपालिता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002644
Book TitleMallikamakarandanatakam
Original Sutra AuthorRamchandra Mahakavi
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages212
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy