SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ महाकविश्रीरामचन्द्रविरचितं श्रेष्ठी - अवश्यं ममाणम् , व्रजत यूयम् । __(बूतकारा निष्क्रान्ताः ।) श्रेष्ठी - किमभिधानो भवान् ? । मकरन्दः - मकरन्दाभिधानोऽस्मि । श्रेष्ठी - अवश्यमनुष्ठातव्यः प्रतिज्ञातोऽर्थः । मकरन्दः - का सन्देहः ?। श्रेष्ठी -अस्ति मन्त्रजा शरीरजा वा काऽपि क्षुद्रोपद्रवद्राविणी शक्तिः । मकरन्दः - अस्य पर्यनुयोगस्य प्रयोजनसिद्धिरेव समाधानम् । श्रेष्ठी -( विमृश्य सकरुणम् ) महाभाग ! महापुरुषोचितां तामेतामाकृतिमनाकुलतां विनयसम्पत्तिं च विलोक्य तदेतस्मिन्नपायशतसङ्कीर्णे वच्छापरिहारनिवारणाकर्मणि न प्रभवामि भवन्तं व्यापारयितुम् । तदद्यापि विमृश प्रयोजनवैषम्यम् , विचिन्तय जीवितस्य सन्देहम् , विगणय धनस्य पांशुपायताम् । उत्तिष्ठ, प्रयाहि स्वं स्थानम् । अस्मदन्तिके व्यापारान्तरं किमप्यादधानः कालमतिवाहय । __बन्धुसुन्दरी- 'पुत्तया ! वच्च तुम, जीव चिरं, मह वच्छाए जं विहिणा लिहियं तं भविस्सदि। .. मकरन्दः - नाहं तादृशो यादृशं यूयं विचिन्तयत, तत् किमर्थमपायसम्पातसन्दर्शनेन सन्त्रासयत माम् ? । अपि च स्वीकृतापायसम्पातः सर्वा सिद्धिं विगाहते। युद्धे हि प्राणसापेक्षो विपक्षैः परिभूयते ॥७॥ ततो विमुच्य कातरतां प्रथयत सौष्ठवम् । कथयत किं मया विधेयम् ? कस्य विधेयम् ? कदा विधेयम् ?।। (श्रेष्ठी बन्धुसुन्दर्या मुखमवलोकयति ।) बन्धुसुन्दरी - महंतो एदस्स अवटुंभो, ता अणुट्ठीयदु समीहिदं । श्रेष्ठी -अस्मद्वच्छाया निशीथसमये देवतापहारनिवारणं त्वया विधेयम् । यावत् प्रयोजनं सन्निधीयते तावत् कथामेकामाकर्णय - इतः संवच्छराद गते षोडशे वच्छरे प्रातरावश्यककरणाय गृहोपवनं गतोऽहम् । मकरन्दः - ततस्ततः ।। १ पुत्रक ! व्रज त्वम्, जीव चिरम् , मम वत्साया यद् विधिना लिखितं तद् भविष्यति । २ महान् एतस्य अवष्टम्भः, तद् अनुष्ठीयतां समीहितम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002644
Book TitleMallikamakarandanatakam
Original Sutra AuthorRamchandra Mahakavi
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages212
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy