________________
मल्लिकामकरन्दनाटकम् । सुन्दरकः - अवश्यमस्ति । श्रेष्ठी-केन हेतुना । सुन्दरकः -उत्तमर्णत्वेन ।
श्रेष्ठी -( विहस्य ) सुन्दरक ! उपपन्नमभिहितवानसि । ( विमृश्य ) व्रज त्वम्, ऋणप्रदानमङ्गीकृत्य कितवैः सहाऽऽनय रक्षकम् ।
(सुन्दरो निष्क्रान्तः । ) (ततः प्रविशति पञ्चषैर्वृतकारैऽतो मकरन्दः ।) श्रेष्ठी -( विलोक्य स्वगतम् ) अहो ! आकारसौन्दर्यम् , अहो ! शरीरलक्षणानां प्रशस्तता, कटरि ! गतेः प्रागल्भ्यम् । ( पुनः सजुगुप्सम् ) सर्वेषामपि लक्षणानां दुरोदरव्यसनमन्तरायः। अथवा व्यसनान्धमेवेदं जगत् ।
केचिद भोजनभङ्गिभिर्नरधियः केचित् पुरन्ध्रीपराः । केचिन्माल्यविलेपनैकरसिका गीतोत्सुकाः केचन । केऽपि यतकथा-मृगव्य-मदिरा-ताम्बूल-शस्त्रोन्मुखाः
केचिद वाजि-गजोक्षयान-सदना-ऽपत्या-ऽऽसनव्याकुलाः ॥६॥ भवतु । (प्रकाशम् ) इदमासनमास्यताम् ।
( सर्वे मकरन्दं परिवृत्योपविशन्ति ।) श्रेष्ठी - (विमृश्य द्यूतकारान् प्रति ) भवत क्षणमेकं दवीयांसो यूयम् ।
द्यूतकाराः -( साक्षेपम् ) अयमस्माभिरनङ्गभवनपृष्ठनिलीनो निशीथसमये महता प्रयासेन प्राप्तः । तदिदानीमरमासु नेदीयोदेशस्थितेष्वेव सर्वमेतेन विधातव्यम् , भवद्भिविधापयितव्यं च ।
श्रेष्ठी - किमेतेन भवतां देयम् ? । यूतकाराः - दीनारपञ्चशतानि ।
श्रेष्ठी -अहो ! सदृशः कथासन्निवेशः। अस्माभिरप्येतावदेवास्य देयम् । ततो व्रजत यूयम् , प्रातर्वयं भवतामेनमर्पयामो देयं वा । यदि वा किमेतेन वणिजां समुचितेन कुटिलभणि तेन ? । एतस्या कारदर्शनेनैव वयमावर्जिताः । प्रयोजनं यथा-तथा वाऽस्तु । देयमस्माभिर्भवतां प्रातर्देयमिति ।
द्यूतकाराः - श्रेष्ठिन् ! प्रमाणं वयम् ? । अङ्गीकृतो विधिः ?, व्रजामो वयम् ? ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org