SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ महाकविश्रीरामचन्द्रविरचित ( नेपथ्ये ) भ्रमितः पुरपथेषु पटहः । प्रतिज्ञातं चैकेन कितवेन भर्तृदारिकापहाररक्षणम् । कोरकः - भवतु, तर्हि श्रेष्ठिने विज्ञापयामि । ( इति परिक्रामति । विलोक्य) किमयं श्रेष्ठी सधर्मचारिण्या बन्धुसुन्दर्या समं किमपि पर्यालोचयन्नस्ति । ( ततः प्रविशति श्रेष्ठी बन्धुसुन्दरी च । ) श्रेष्ठी - प्रिये ! मास्म वृथा विषादमातथाः । श्रिया शक्त्या च साध्येऽर्थे सिद्ध्यभावे मनः क्लमः । उभाभ्यामप्यसाध्ये तु का नाम परिदेवना ? || ३ || तथापि सर्वस्वप्रदानेनापि पुत्रीरक्षणार्थं प्रयत्नमाधास्यामि । व्यसने महत्यपि समुल्लसिते निरुपायता खलु न युक्तिमती । जलधेरगाधमपि वारि नरः प्रविगाहते समधिरुह्य तरीम् ॥४॥ बन्धुमती - ( सास्रम् ) 'अज्जउत्त ! सव्वो वि एस बालकाला दो वच्छापरिपालणापयासो विहलो भविस्सदि । श्रेष्ठी - प्रिये ! विधिनियोगोऽयमशक्यप्रतीकारो लोचने निमील्य सोढव्य एव । १२ न स मन्त्रो न सा बुद्धिः न च दोष्णां पराक्रमः । अपुण्योपस्थितं येन व्यसनं प्रतिरुध्यते ॥५॥ आर्य ! सम्पन्नो रक्षकः । कोरकः श्रेष्ठी कोरकः - कितवः कोऽपि - श्रेष्ठी - यदि कितवो रक्षकः, सम्पन्नं तर्हि प्रयोजनम् । व्यसनान्धा हि प्राणव्ययेनापि धनार्थं प्रयोजनं साधयन्ति । कः पुनस्तस्यात्रागमने कालविलम्बः ? । Jain Education International - कः पुनः सम्पन्नः 2 । ( प्रविश्य ) सुन्दरकः - आर्य ! रक्षकस्य द्यूतकारा राजाज्ञयाऽत्रागमनं निषेधयन्ति । श्रेष्टी ( साक्षेपम् ) अस्मत्प्रतिगृहीतस्य रक्षकस्य द्यूतकाराणामंत्रागमनप्रतिषेधने शक्तिरस्ति ? | १ आर्यपुत्र ! सर्वोऽपि एष बालकालाद् वत्सापरिपालनाप्रयासः विफलो भविष्यति । For Private & Personal Use Only www.jainelibrary.org
SR No.002644
Book TitleMallikamakarandanatakam
Original Sutra AuthorRamchandra Mahakavi
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages212
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy