SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः । ( ततः प्रविशति चेटी ।) [चेटी-] 'तं किं पि कामिणीणं कत्थ वि पिम्मं जणम्मि निव्वडइ । झिज्जति जेण डझंति जेण जेणं विवज्जति ॥१॥ ( प्रविश्य) कोरकः - लवङ्गिके ! किमद्य विषादिनीव दृश्यसे ?। चेटी-महाभाय ! किं कधयामि मंदभाइणी ? । अज्जं खु दाहजराभिभूदाए भट्टिदारियाए अट्ठमं दिणं वट्टदि । सा खु न जंपदि, न कीलदि, न भुजदि, णवरं हत्थग्गविइन्नकवोलमूला [ चिट्ठदि] । [कोरकः -] किम् ? । चेटी -पियजणस्स विरहो। कोरकः - अहो ! आश्चर्यम् । ईदृशेऽपि व्यसनोपनिपाते भर्तृदारिकाया विरहः। रोगेऽपि विप्रयोगेऽपि शोकेऽपि व्यसनेऽपि च । क्षुत्-पिपासा-स्मराः प्रायो विमुश्चन्ति न देहिनम् ॥२॥ क्व पुनः प्रस्थिताऽसि ।। चेटी-दाहोवसमणत्थं दीहियाओ कमलाई आणेदुं । (-इत्यभिधाय निष्क्रान्ता ।) कोरकः -( परिक्रम्य उच्चैःस्वरम् ) भो भोः श्रेष्ठिनो ब्रह्मदत्तस्य परिजनाः ! दीनारपञ्चशतीपदानपूर्वकं भर्तृदारिकापहाररक्षणाय भ्रमयत सर्वतः पुरपथेषु पटहम् । १ तत् किमपि कामिनीनां कुत्रापि प्रेम जने सजायते । क्षीयन्ते येन दह्यन्ते येन येन विपद्यन्ते ॥ २ महाभाग ! किं कथयामि मन्दभागिनी ? अद्य खलु दाहज्वराभिभूताया भर्तृदारिकाया अष्टमं दिनं वर्तते । सा खलु न जल्पति, न क्रीडति, न भुनक्ति, नवरं हस्ताप्रविदत्तकपोलमूला [तिष्ठति । ३ प्रियजनस्य विरहः । ४ दाहोपशमनार्थ दीपिकातः कमलानि आनेतुम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002644
Book TitleMallikamakarandanatakam
Original Sutra AuthorRamchandra Mahakavi
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages212
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy