SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ महाकविश्रीरामचन्द्रविरचित ( युवती कुण्डलयुगलमर्पयति । ) पुरुषः -(सभयमात्मगतम्) प्रातरेतस्याः पिता प्रसाधनसंख्यां मयि गवे[षि]प्यते, ततः कोऽयमनर्थः । बन्धुला -( सभयं स्वगतम् ) 'किं मए पभाए भट्टिणीए पुरओ उत्तरं कायव्वं ?। पुरुषः -( सरोषम् ) भर्तृदारिके ! केयं स्वेच्छाचारिता? किमिदं वणिक्कुमारिकाचारविरुद्धं परपुरुषाय कुण्डलप्रदानम् ?; तदहं पदातिलोकमानीय कुण्डलमादास्ये । (-इत्यभिधाय निष्क्रान्तः ।) ___बन्धुला-भट्टिदारिए ! सव्वं पि एदम्मि दुढे संभावीयदि, ता लहुं कहेसु वसणं। (नेपथ्ये) एषा तस्य पदपद्धतिरुपवनं प्रविशति । ततः प्रदीपज्योतिषा मध्यमवलोकयत । (सर्वे सभयमाकर्णयन्ति) बन्धुला - भट्टिदारिए ! एदस्स दुद्रुस्स एवं वियंभियं । मकरन्दः -( स्वगतम् ) निश्चितं ममानुपदं कितवाः समायाताः । न चात्र मे प्रतिभयम् । सूत्रधाराभिहितोपश्रुतिश्लोकानुसारेण शुभोदर्कोऽयं ममोपवनप्रवेशः। युवतिः - अज्ज ! किं मए दाणि कादव्वं ?। मकरन्दः - ब्रज त्वमुपवनपाश्चात्यद्वारेण स्वभवनम् । पुनरहं प्रात(? श्व)स्त्वया निशीथेऽत्र गवेषणीयः। (युवतिः सबन्धुला निष्क्रान्ता ।) __ मकरन्दः -कथं मां दापज्योतिषा दृष्टवन्तः कितवाः ? । भवतु, कामायतनपाश्चात्यभागे तिरोदधामि ! ( इति निष्क्रान्ताः सर्वे । ) ॥ प्रथमोऽङ्कः ॥ १॥ श्रीः॥ १ किं मया प्रभाते भाः पुरतः उत्तरं कर्तव्यम् । २ भर्तृदारिके । सर्वमपि एतस्मिन् दुष्टे सम्भाव्यते, तद् लघु कथय व्यसनम् । ३ भर्तृदारिके ! एतस्य दुष्टस्य एतद् विजृम्भितम् । १ आर्य । किं मया इदानी कर्तव्यम् ? । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002644
Book TitleMallikamakarandanatakam
Original Sutra AuthorRamchandra Mahakavi
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages212
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy