SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ मल्लिकामकरन्दनाटकम् । यदि पुनर्भगवान् विधिरनुकूलतां यास्यति कदाचित् [तदा] तव भर्तृ दारि]कायाः पुरः सर्वमावेदयिष्यामि । बन्धुला-'अट्टिदारिए ! अदिकालो भोदि, निवेदेहि वसणमेदस्स.. महाणुभावस्स। युवतिः-बन्धुले ! 'विउलस्स वि उवयारस्स पुरिससीहस्स दड्ढमहिलाओ। पच्चुवयारं मन्नंति देहदाणाओ न हु अहियं ॥२२॥ बन्धुला-तदो किं ?। युवतिः- अहं दाणि देहदाणं पिकाउमसमत्था, तदा कथं वसणं पयासेमि ? कहं च एदाओ वसणपडियारमहिलसेमि ? । पुरुषः-भर्तृदारिके ! प्रत्युपकारानपेक्षमुपकारकत्वमेतस्य महौजसः; तता मा शङ्किष्ठाः, प्रकाशय व्यसनम् । युवतिः-(मकरन्दं प्रति) पगासयामि वसणं, पढमं पुणो एदं सुणेसु । मकरन्दः -(सहर्ष समीपतरीभूय) किं तत् ? । युवतिः-'विग्घबहुलाओ रयणीओ, असमत्ते वि कहापबंधे विहडणावाओ को वि संभवे । मकरन्दः-(साक्षेपम् ) ततः किम् ? । युवतिः-"तदो आरामसंघडणाहिन्नाणं गिहाण मे एदं कुंडलजुयलं । मकरन्दः- (सप्रमोदमात्मगतम् ) कथमस्मत्प्राणसम्पदां ग्रहणसत्यङ्कारमियमुपनयति ? । (प्रकाशम् ) भद्रे ! को नाम प्रियजनस्य प्रसादं नाभिमन्यते ?। १ भदारिके ! अतिकालो भवति, निवेदय व्यसनमेतस्य महानुभावस्य । २ विपुलस्य अपि उपकारस्य पुरुषसिंहस्य दग्धमहिलाः । प्रत्युपकारं मन्यन्ते देहदानाद् न हि अधिकम ॥ ३ ततः किम् ? । ४ अहं इदानीं देहदानं अपि कर्तुमसमर्था, ततः कथं व्यसनं प्रकाशयामि ? कथं च एतस्माद् व्यसनप्रतीकारमभिलषामि ? । ५ प्रकाशयामि व्यसनम् , प्रथमं पुनः एतद् शृणु । ६ विघ्नबहुला रजन्यः, असमाप्तेऽपि कथाप्रबन्धे विघटनापायः कोऽपि सम्भवेत् । ७ ततः आरामसङ्घटनाभिज्ञानं गृहाण मे एतत् कुण्डलयुगलम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002644
Book TitleMallikamakarandanatakam
Original Sutra AuthorRamchandra Mahakavi
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages212
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy