________________
महाकविश्रीरामचन्द्रविरचित दर्पणस्ते हृदयम् । अनर्थ पुनरिममेतस्याः पितरावेव परमार्थेनावगच्छतः। ततः किं तुभ्यमावेदयामि ?। मकरन्दः -(युवतीं प्रति)
पृच्छन्नसंस्तुतो गोप्यमशक्तः कोपमावहन् ।
विरक्तां च स्त्रियं गच्छन् हास्यं कस्मै न यच्छति? ॥१९॥ तथापि चिरसंस्तुतमिव मे भवत्यामन्तःकरणं न किमपि कृत्याकृत्यमालोचयति । ततो यदि समुचितं तदा प्रकाशय व्यसनमात्मनः, विगणय मामात्मीयम् । यदि च विज्ञातव्यसनहेतुरहं न प्रतीकारमयत्नमादधामि तदानीमसारवादिनमकुलीनं च जानीयाः।
युवतिः- (स्वगतम् ) 'ममावि एदम्मि केणावि कारणेण परमपिम्मभिंभल हिययं, ता कहेमि वसणं । भोदु दाव । (प्रकाशम् )
सामत्थाभावेणं अकएसु पओयणेसु को रोसो ? । वसहेसु दुद्धमहियं नएसु को नाम निव्वेओ ? ॥२०॥ मकरन्दः - (साक्षेपम् ) कथं पुनर्व्यसननिवृत्तावस्माकं सामर्थ्याभावमवगच्छसि ?।
युवतिः - अत्तणो अप्पडियारेण वसणेणं अवगच्छामि ।
मकरन्दः -भद्रे ! अनभिज्ञाऽसि महापुरुषव्यापाराणाम् । पणीकृतप्राणसम्पदां हि महौजसां किं नाम साध्यमसाध्यं वा ? ।
पुरुषः-महाभाग ! बाढमुपपन्नमभिहितवानसि । किमुत व्यसनमहार्णवनिमग्न इव मे भवानपि प्रतिभाति । कथमपरथा निर्जनप्रचारायामारामभूमौ निशीथसमये दस्युरिव निलीनस्तिष्ठसि ?।। मकरन्दः-साधु विज्ञातवानसि, तथापि न त्वया व्यसनवृत्तान्तमहं प्रष्टव्यः ।
सुखं प्रकाश्यते दौःस्थ्यं प्राच्यमारूढवैभवैः ।
आरूढदौःस्थ्यैदुःखे न प्राचीनं वैभवं पुनः ॥२१॥ १ ममापि एतस्मिन् केनापि कारणेन परमप्रेमविह्वलं हृदयम् , तत् कथयामि व्यसनम् । भवतु तावत् ।
सामर्थ्याभावेन अकृतेषु प्रयोजनेषु को रोषः ? ।
वृषभेषु दुग्धम् अहितं नयेषु को नाम निर्वेदः ? ॥ २ आत्मनः अप्रतीकारेण व्यसनेन अवगच्छामि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org