________________
मल्लिकामकरन्दनाटकम् । बन्धुले ! एपा युवयोः स्वामिनी विपद्यते (-इति ब्रुवाणोऽसिलतया कण्ठपाशं छिनत्ति।)
(युवतिमूच्छिता पतति, मकरन्दः वस्त्राञ्चलेनोपवीज्य हृदयं संवाहयति । ततः प्रविशति सम्भ्रान्तः सचेटीकः पुरुषः । )
पुरुषः- (निभृतमालोक्य) कथं भर्तदारिकाया वक्षसि विहितासनस्तस्करः कोऽपि नेपथ्यमाकर्षति ? भवतु, कृपाणेन मूर्धानमेतस्यापनयामि । (पुनर्विमृश्य) कथमन्धकारप्राग्भारेण स्त्री-पुंसयोविभागः कोऽपि लक्ष्यते ? ।
चेटी-'ताय ! मुंच मुंच सामिणि, देहि मे पाणभिक्खं, गिण्ह आहरणाई ।
मकरन्दः -(उभौ प्रति) [न]वगतपरमार्थों युवां व्याहरतः । नाहं चौरो जारो वा।
पुरुषः-तर्हि किमेतत् ? कथय ।
युवतिः-(चेतनामास्थाय स्वगतम् ) एस को वि आहरणलोहेण मह जीवियं अवहरिदुकामो तक्करो । (प्रकाशम् ) महाभाय ! गिण्ह एयाणि मे आहरणाई। अण्णं पि दे दविणजायं बहुयरमुवणयस्सं । करेहि एयाए असिधेणुआए कंठवीढम्मि जीविदेसकम्मं, जेण दुक्खमुक्खो होदि ।
मकरन्दः-भवतु, करिष्यामि कण्ठपीठे जीवितेशकर्म; किन्तु भुजपञ्जरपाशेन, न पुनरसिधेनुकया।
बन्धुला-महाभाय ! पसीय[दु] भयवं मम्महो । एदाए असंघडियाणुरूवजीविदेसाए सह भट्टिदारियाए भोदु दे एवं जंपियं पमाणं ।
मकरन्दः -(पुरुषं प्रति) विधातुं सम्पदो हर्तुमापदश्च न निश्चयः ।
मनस्तु मे सदाऽप्यन्यदुःखसङ्क्रान्तिदर्पणः ॥१८॥ तत् कथय केनानर्थजातेन विह्वलीकृतेयं कण्ठपाशवैशसं कृतवती ?।
पुरुषः-महाभाग ! यद्यप्यन्धकारे न कोऽप्याकारस्तवोपलक्ष्यते तथाप्यमुना कण्ठपाशच्छेदव्यापारेण महत्त्वशंसिना व्याहारेण ज्ञातमन्यदुःखसङ्क्रान्ति
१ तात ! मुञ्च मुच्च स्वामिनीम् , देहि मे प्राणभिक्षाम् , गृहाण आभरणानि ।
२ एष कोऽपि आभरणलोभेन मम जीवितं अपहर्तुकामः तस्करः । महाभाग ! गृहाण एतानि मे आभरणाान । अन्यद् अपि ते द्रविणजातं बहुतरमुपनेष्यामि । कुरु एतया असिधेन्वा कण्ठपीठे जीवितेशकर्म, येन दुःखमोक्षो भवति ।
३ महाभाग ! प्रसीद[तु] भगवान् मन्मथः । एतया असङ्घटितानुरूपजीवितेशया सह भर्तृदारिकया भवतु ते एतद् जल्पितं प्रमाणम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org