SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ महाकविश्रीरामचन्द्रविरचित युवति:- एदं ज्जेव दाणि मे समीहिदं मंगलं । मकरन्दः - समीचीनमाह दुःखितेयं युवतिः । इदं कृत्यमकृत्यं वा काल- देशव्यपेक्षया । परासोरात्मजस्यापि दहनं मङ्गलक्रिया ॥१६॥ युवतिः - (सखेदम् ) 'दुत्था परव्वसा वाहिया य अंधा य पियवित्ताय । कह नाम लहिज्ज सुहं ? न हुज्ज भयवं जइ कयंतो ॥ १७॥ पुरुषः- भर्तृदारिके ! इदानीमनर्थसंसूचिका काऽपि ते मनोवृत्तिः । तदुत्तिष्ठ व्रजामः सौधम् । उपनयामि त्वां माता- पितृभ्याम्, तयोरन्तिके यदुचितं तद् विदध्याः । युवति:- (सावहित्थं विहस्य) 'अज्ज ! सव्वओ वि भीरुआहिं अम्हारिसाहिं विलयाहिं किंपि अणत्थं कीरदि ?, ता किं अलीयसंभावणाहिं अत्ताणयं किलेसेसि ?; वच्च, आणेसु कुदो वि पईवं । बंधुले ! तुमं पि आणेसु दीहियाओ कमलाई, जेण मम्महं पूएमि । (उभौ निष्क्रान्तौ) मकरन्दः - एतौ ध्रुवमेतया कपटेन बहिः प्रवासितौ, तदहं सावधानो भवामि । अपि नामेयमाततायिनी किमप्यवाच्यमाचरेत् । युवतिः - (सहकारमूलमागत्य ) भयवं अणंग ! पडिवासरमाराहिएण वि तुमए न किंपि मे कदं पडिकयं । ता इयाणि असरिसं साहस कुणती सक्खी व दाव हविज्जासु । ( सहकारशाखायां कण्ठपाशमाबध्नाति । ) (तारस्वरम् ) हो पुरुष ! हा पुरुष !, हला बन्धुले ! हला मकरन्दः १ एतद् एव इदानीं मे समीहितं मङ्गलम् । २ दुःस्था: परवशा व्याधिताव अन्धाश्च प्रियवियुक्ताश्च । कथं नाम लभेत सुखं ? न भवेद् भगवान् यदि कृतान्तः ॥ १३ आर्य ! सर्वतोऽपि भीरुकाभिः अस्मादृशीभिः वनिताभिः कोऽपि अनर्थः क्रियते ? तत् किं अलीकसम्भावनाभिः आत्मानं क्लेशयसि ? व्रज, आनय कुतोऽपि प्रदीपम् । बन्धुले ! त्वमपि आनय fara: कमलानि येन मन्मथं पूजयामि । ४ भगवन् अनङ्ग ! प्रतिवासरमाराधितेनापि त्वया न किमपि मे कृतं प्रतिकृतम्, इदानीं असदृशं साहसं कुवैत्याः साक्षी अपि तावद् भवेः । Jain Education International For Private & Personal Use Only तद् www.jainelibrary.org
SR No.002644
Book TitleMallikamakarandanatakam
Original Sutra AuthorRamchandra Mahakavi
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages212
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy