________________
मल्लिकामकरन्दनाटकम् । स्वैरमाचरिष्यति, तदहं विध्याप्य प्रदीपं द्वाराजिररोहिणः सहकारस्य तले तिरोदधामि । ( तथा करोति )
युवतिः - 'हला बंधुले ! किमज्ज विगयपईवुज्जोयं भयवओ गम्भहरं ? हीमाणहे ! कहं अंधयारे पूर्य करिस्सं ? ।
मकरन्दः - किम् 'अद्य' इति ब्रुवाणा ध्रुवमियमन्यदा निशीथे समायाति ? ।
पुरुषः - भर्तृदारिके ! शतशो वासरेषु दृष्टपूर्वा ते भगवतः पञ्चबाणस्य प्रतिमाः ततो यथादृष्टस्मरणमवयवेषु विमुञ्च विकचविचकिलस्रनः ।
युवतिः-(सखेदम् ) अज्ज ! सुहिदो सि तुमं, सुमरेसि सव्वं पि । अहं उण महादुक्खभारभिंभलमाणसा अप्पाणं पि न संभरामि । ता चिटुंदु पूओवगरणाई।
मकरन्दः - ( साश्चर्यम् ) ईदृशेऽपि नेपथ्यप्रकारसंसूचिते महाविभवे महादुःखोपनिपातः !
दरिद्रः क्षुत्पिपासाभ्यां विघ्ना-ऽऽधि-व्याधिभिर्धनी।
प्रायेण लोकः सर्वोऽपि शोकसङ्कुलमानसः ॥१४॥ युवतिः - ( सानं प्रणम्य ) भयवं पंचबाण ! असरणस्स विहलरूवविहवस्स जणस्स सुणेहि विन्नतिं । एस चरम विन्नवीयसि । .
मकरन्दः - (साशङ्कम् ) 'अशरण' इति ब्रुवाणा निष्प्रतीकारमपायमात्मनः सूचयति; 'चरमम्' इति च प्राणपरित्यागपिशुनं वचः। युवतिः
अणवरयं पूआहिं तुट्टो सि कहं पि जइ महं देव !।
रक्खिज्जसु ता मज्झं तरेवि एयारिसमणत्थं ॥१५॥ मकरन्दः- कः पुनरसावनर्थः ? यत्र प्राणपरित्यागोऽपि प्रियङ्करः ।
चेटी:-भट्टिदारिए ! केरिसा तुज्झ एरिसा निव्वेयगम्भिणी विन्नत्ती ? समी हिंदं किं पि मंगलं पत्थेसु ।
१ सखि बन्धुले ! किमद्य विगतप्रदीपोद्द्योतं भगवतो गर्भगृहम् ? अहो कष्टं कथमन्धकारे पूजां करिष्यामि ।
२ आर्य ! सुखितोऽसि त्वम् , स्मरसि सर्वमपि । अहं पुनः महादुःखभारविह्वलमानसा आत्मानमपि न स्मरामि । तत् तिष्ठन्तु पूजोपकरणानि ।।
३ भगवन् पञ्चबाण ! अशरणस्य विफलरूपविभवस्य जनस्य शृणु विज्ञप्तिम् , एष चरम विज्ञप्यसे। ४ अनवरतं पूजाभिः तुष्टोऽसि कथमपि यदि मह्यं देव !! रक्षेः तद् मां दत्त्वा एतादृशमनर्थम् ।। ५ भर्तृदारिके ! कीदृशी तव ईदृशी निर्वेदगर्भिणी विज्ञप्तिः ? समीहितं किमपि मङ्गलं प्रार्थय।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org