________________
महाकविश्रीरामचन्द्रविरचित व्यापाराः परवञ्चनानि सुहृदश्चौरा महान्तो द्विषः प्रायः सैष दुरोदरव्यसनिनां संसारवासक्रमः ॥१०॥ तथापि द्युतकारस्य पापध्वान्तान्धचेतसः।
शक्रेऽपि रङ्कसङ्कल्पो द्यूतकर्मपराङ्मुखे ॥११॥ ( सपश्चात्तापम् ) तथाविधाया विशुद्धवंशोत्पत्तेस्तथाविधश्रुताध्ययनस्य तस्याश्च गुरूपदेशपरम्परायाः स एष दोषनिश्शेषमूलं महापुरुषगहितो व्यापारः फलमभूत् । तदहमेतस्य व्यसनपरम्परापात्रस्य पापीयसः स्वात्मनः शस्त्राभिघातेन कण्ठपाशप्रदानेन वा प्रायश्चित्तमाधास्यामि । यदि वा:
प्रायश्चित्तं नये वृत्तिः श्लाघ्यमश्लाघ्यकर्मणः।
शस्त्रादिभिस्तु पश्चत्वमाततायिविचेष्टितम् ॥१२॥ तत् तावदेतस्य सहकारशाखाकुलायनिलीनकोकिलाबन्दिवृन्दो ष्यमाणवसन्तमहाराजावतारस्य विकाशिपाटलापटलगन्धसम्बन्धबन्धुरितगन्धवाहनिपीयमानपुरपुरन्ध्रीसुरतसम्परायखेदस्वेदाम्भसो मध्यमध्यास्य महोद्यानस्य त्रियामामेतामतिवाहयामि । प्रभातभूयिष्ठायां चास्यां द्यूतकारदृष्टिसञ्चारपरिहारेण किमपि स्थानान्तरमाश्रित्य कुलिनोचितमाचरिष्यामीति । ( पुरोऽवलोक्य ) कथमिदं दीप्रदीपप्रभाप्रकाशितं देवतायतनम् ? मध्ये च भगवतः पञ्चबाणस्य प्रतिमा ? । ( सविनयं प्रणम्य)
शम्भु-स्वयम्भु-हरयो हरिणेक्षणानां
येनाक्रियन्त सततं गृहकुम्भदासाः । वाचामगोचरचरित्रपवित्रिताय
तस्मै नमो भगवते कुसुमायुधाय ॥१३॥ ( कर्ण दत्त्वा ) कथं मञ्जीरझात्कारः ? । (विमृश्य ) न तावदेतस्यां नगरदवीयस्यां कुहरविहरमाणकरालव्यालभीष्मायामारामभूमौ दस्युप्रचारसमुचिते च निशीथसमये मनुष्यकामिनीसञ्चारः सम्भवति । तदनेन वनदेवताचरणमञ्जीररवेण भाव्यम् ।
(ततः प्रविशति पूजापटलहस्तचेटीदत्तहस्तावलम्बा कृपाणपाणिना पुरुषेणानुगम्यमाना सर्वाङ्गीणाभरणा युवतिः । )
मकरन्दः - (विलोक्य ) निश्चितमियं दीपज्योतिषा मामवलोक्य न किमपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org