SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ मल्लिकामकरन्दनाटकम् । सूत्रधारः-(सावष्टम्भम् ) अत्रार्थे स्वयमेव कविना दुर्मेधसां मुखबन्धः कृतः। काव्यैर्यत्र कविप्रथा धनलवक्रीतैरपि प्राप्यते गुम्फक्लेशमुपासितुं कृतधियां कस्तत्र काले क्रमः ?। ग्रनन्तस्तदपि प्रबन्धकुसुमान्याजन्म खिद्यामहे कुप्यामो व्यसने चिरं विरचिते कस्मै परस्मै वयम् ? ॥८॥ ( नेपथ्ये) साधु भो भरत ! साधु, बान्धवोचितं समयोचितं श्रावितवानसि । सूत्रधारः - कथमेष मकरन्दनेपथ्यवाही भरतो भारतीमास्माकीनामनुमोदते ?। नट:- भाव ! त्वरस्व त्वरस्व, संरब्धाः सर्वतोऽपि रङ्गोपजीविनः, समुत्सुकोऽहं मनःसमीहितामर्थसिद्धिमासादयितुं सामाजिकेभ्यः। [सूत्रधारः-] मार्ष ! मा त्वरिष्ठाः। सर्वाऽपि महती सिद्धिः क्लेशान्तरितसम्भवा । विद्यावधूटिमाप्नोति सोढा काय-मनःक्लमान् ॥९॥ (नेपथ्ये ) इयं पुनरुपश्रुतिरस्माकं वधूलाभपुरस्सरां महार्थसिद्धिसम्पत्तिं पिशुनयति । सूत्रधारः - मार्ष ! तदलं वाचां विस्तरेण । एहि, करणीयान्तरमनुतिष्ठामः। ( इति निष्क्रान्तौ । ) ॥ आमुखम् ॥ ततः प्रविशति मकरन्दः) मकरन्दः - परमार्थोऽयम् - ___ "कुप्यामो व्यसने चिरं विरचिते कस्मै परस्मै वयम् ?" न नाम द्युतकाराः सभिको वा प्रसह्य मां दूरोदरकर्मणि व्यापारयन्ति । तदत्र प्राचीनजन्मसहस्रोपाजितानि दुष्कर्माण्येवापराध्यन्तिः न चाहम् , न च बाह्यो लोकः। (साश्चर्यम् ) कौपीनं वसनं कदन्नमशनं शय्या धरा पांशुला जल्पोऽश्लीलगिरः कुटुम्बकजनो वेश्याः सहाया विटाः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002644
Book TitleMallikamakarandanatakam
Original Sutra AuthorRamchandra Mahakavi
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages212
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy