SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ महाकविश्रीरामचन्द्रविरचित विमुखान् महासुभटोत्साहदर्शनेऽपि अरोमाञ्चकञ्चुकान् मातृ-पितृ-भ्रातृ-सुतविपत्तावप्यनार्द्रमानसान्, निर्व्याजसेवकेऽप्यस्वीकृतवात्सल्यान् पाषाणसुहृदो दुर्मेधसः । ( आकाशे ) किं बूथ ? भोः ! किमेताभिर्भणितिभिः? अकुटिलमेव प्रकाशय विवक्षितमर्थम् । एष तहि श्रवणपरुषमप्यकुटिलमेव विज्ञापयामि - २ नीरसानां पुरो नाटयं दुर्जनानां पदातिताम् । ग्राम्याणां वाग्मितां कुर्वन् हास्यो ब्रह्माऽपि जायते ॥४॥ ( प्रविश्य सरोषः ) नटः भाव ! सर्वतः प्रसिद्धवैदग्ध्यान् अशेषर सिकावतंसान् सभ्यमिश्रान् अलीकवाचालतया प्रकोपयसे । विमुञ्च बहुभाषिताम् । पर्यालोचय किमपि प्रबन्धमभिनयाय | -- सूत्रधारः - ( सभयम् ) मार्ष ! मा कोपीः, अविज्ञातसभ्यप्रगल्भोऽहं भूयोभूयः प्रलपितवान् । विनाऽभिप्राय दौरात्म्यं नापराधोऽपि गर्हितः । आचार्यो वाणि-पाणिभ्यां ताडयन्नपि पूज्यते ॥५॥ प्रबन्धविशेषं पुनः प्रथममेव पर्यालोच्य सभ्यानुपस्थितोऽस्मि । कः पुनरसौ ? | नटः 1 सूत्रधारः विद्यात्रीस निसर्गनदीष्णचेतसो निःशेषचक्रवर्त्तिचक्रचूडारत्नांशुपुञ्जपिञ्जरितपादपीठस्य सप्तार्णवीकूलसङ्क्रान्तकान्तयशसः श्रीमदाचार्यहेमचन्द्र [स्य ] शिष्येण प्रबन्धशतकारिणा रामचन्द्रेण विरचितं मल्लिका मकरन्दाभिधानं नाटकं नाटयितव्यम् । नटः - ( सावज्ञम् ) भाव ! प्रशमरसिकवैदुष्येण धर्मदेशनाविधानैकप्रगल्भवाचो वाचंयमाः शृङ्गार- हास्य-वीरप्रमुखरसमयानामनर्हाः खलु नाट्यप्रबन्धानाम् । सूत्रधारः - मार्प ! साम्प्रतं ग्रामीणचातुरीवन्ध्यमभिदधासि । शमस्तत्त्वं मुनीन्द्राणां जानते तु जगन्त्यपि । जन्मैव दिवि देवानां विहारो भुवनेष्वपि ॥ ६ ॥ नट: - ( सरोषम् ) Jain Education International - परोपनीतशब्दार्थाः स्वनाम्ना कृतकीर्त्तयः । निबन्धारोऽधुना तेन विश्रम्भस्तेषु कः सताम् ॥७॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002644
Book TitleMallikamakarandanatakam
Original Sutra AuthorRamchandra Mahakavi
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages212
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy