SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ॥ जिना जयन्तु जितमोहाः ॥ प्रबन्धशतकर्तृ - महाकवि - श्रीरामचन्द्रविरचितं मल्लिकामकरन्दनाटकम् ॥ ॐ नमः श्रीसरस्वत्यै ॥ मल्लिकाविशदां लक्ष्मीं प्राप यः शिवसम्भवाम् । प्रत्यूहव्यूहतो मुक्तं तं जिनेशमुपास्महे ॥१॥ (नान्द्यन्ते ) सूत्रधारः - ( सविनयमञ्जलिं मूर्धनि विधाय ) हो समाजलोकाः ! क्षणमेकमवधानमाधाय सकलबाल-गोपालाङ्गनाहृदयसंवादिनीं विपश्विच्चक्रवालचेतचमत्कारकन्दकन्दलन कादम्बिनीं समाकर्णयत वितीर्णस कर्णकर्ण कोटर सुधाधाराभिषेकां मदीयां विज्ञप्तिकामेकाम् - - पटुभिरपि नोपसर्पति चटुभिरयं निष्प्रयोजनो लोकः । तत् किमपि शिक्षणीयं प्रयोजनं येन जगतोऽपि ॥२॥ तत् पुनर्जन्मसहस्रोपार्जित पुण्य नैपुण्यैर्निःशेषसांसारिकप्रयोजनप्ररोहक्षमां भगवतीं लक्ष्मीमनुकूलितवद्भिर्भवद्भिः शिक्षितमेव । यतः द्वयं द्वयस्य सम्पत्ति (त्ते) र्बी जमाद्यमखण्डितम् । संसारकर्मणां लक्ष्मीः प्रशमः शिवशर्मणाम् ॥३॥ अतोऽहं लक्ष्मीलवलाभश्रद्धाग्रहिलान्तःकरणो निरन्तरावलोकनैर्नाटयदर्शनसुखविमुखानामपि भवतामाराधनाय प्रवृत्तोऽस्मि । ( आकाशे कर्ण दत्त्वा ) किमादिशत ? | वाग्मी खल्वसि एतावतैव भवतो वाचां विलासेन वयमत्यन्तमामोदिताः । सत्यम्, न जानीमः प्रबन्धदर्शने किमपि भविष्यति ? इति । ( सहर्षम् ) अपरां तहि विज्ञापनामेकामाकर्णयत रसपीयूषपूर पूर्णचेतसः सुमेधसः पुरस्कृत्य महाकवयो नाट्यप्रबन्धानाबध्नन्ति । न पुनः कलगीतिकामिनीभ्योऽपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002644
Book TitleMallikamakarandanatakam
Original Sutra AuthorRamchandra Mahakavi
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages212
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy