________________
नाट्यविषयकपारिभाषिकशब्दाः
163
सूत्रधारः चतुरातोद्यनिष्णातोऽने भाषासमावृतः ।
नानाभाषणतत्त्वज्ञो नीतिशास्त्र र्थतत्ववित् ।। नानागतिप्रचारज्ञो रसभावविशारदः । नाट्यप्रयोग-निपुणो नानाशिल्पकलान्वितः ।। छन्दोविधानतत्त्वज्ञः सर्वशास्त्रविचक्षणः । तत्तद्गीतानुगलयकलातालावधारणः ॥ अवधानप्रयोक्ता च योक्तृणामुपदेशकः । एवंगुणगणोपेतः सूत्रधागेऽभिधीयते ।
-मातृगुप्ताचायः नाटयोपकरणादीनि सुत्रमित्यभिधीयते । सूत्रं धारयतीत्यर्थे सूत्रधारो निगद्यते ।। आसूत्रयन् गुणान् नेतुः कवेरपि च वस्तुनः । रङ्गप्रसाधनप्रौढः सूत्रधार इहोदितः ॥ नाट्यस्य यदनुष्ठानं तत् सूत्रं स्यात् सबीज कम्। रजदैवतपूजाकृत् सूत्रधार उदीरितः ।। वर्तनीयकथासूत्रं प्रथमं येन सूच्यते । रङ्गभूमि समासाद्य सूत्रधारः स उच्यते ॥
नाट्योक्तयः (अ) दूरस्थाभाषणं यत्स्यादशरीरनिवेदनम् ।।
परोक्षान्तरित वाक्यमाकाशवचनं तु तत् । तत्रोत्तरकृतैर्वाक्यैः संलापं संप्रयोजयेत् ॥ नानाकारणसंयुक्तैः काव्यभावसमुत्थितैः । हृदयस्थ-वचो यत्तु तदात्मगतमिष्यते ॥ सवितर्क च तद् योज्यं प्रायशो नाटकादिषु । निगूढभावसंयुक्तमपवारितकं स्मृतम् ।। कार्यवशादश्रवणं पर्श्वगतैर्यज्जनान्तिकं तत् स्यात् । हृदयस्थं सविकल्पं भावस्थं चात्मगतमेव ।। इति गूढार्थयुक्तानि वचनानीह नाटके । जनान्तिकानि कर्णे तु तानि योज्यानि योक्तृभिः ।। पूर्ववृत्तं तु यत्कार्य भूयः कथ्यं तु कारणात् । कर्णप्रदेशे तदाच्यं मागात्तत्पुनरुक्तताम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org