________________
162
Malllika-Makaranda
एव कवयो रूपकारम्भे 'नान्द्यन्ते सूत्रधारः' इति पठन्ति । यत्र तु कविकृता नान्दी न दृश्यते, स्त्रापि रङ्गसूत्र गाकर्तृकृता द्रष्टव्या । नान्दीपाठकाश्च सूत्रधार-स्थापकपारिपाश्विका इति ।
-नाट्यदर्पणम् ३.१. नन्दति देवता अस्याम्, नन्दन्ति देवताः अस्याम् , नन्दयति देवतां देवताः वा, इति नान्दी । नन्दिः आनन्दः, देवतायाः देवतानां वा, तस्या: इयं नान्दी । अथवा नन्दः (आनन्दः देवतायाः देवतानां वा) एव नान्दः । प्रज्ञादिभ्योऽण् डिड्ढाणअिति ङोप् । नान्दी । नन्दन्ति सामालिकाः अस्याम्, नन्दयति सामाजिकान् इति वा नान्दी ।।
-अश्वत्थामाचार्यः ("वेणीसंहार"-आवृत्ती)
आमुखम् नटी विदूषको वापि पारिपाश्विक एव वा । सूत्रधारेण सहिताः संलापं यत्र कुर्वते ॥ चित्रैर्वाक्यैः स्वकार्योत्थैर्वीथ्यङ्गैरन्यथापि वा। आमुख तत्तु विज्ञेयं बुधैः प्रस्तावनापि वा ।। उद्घाश्यक: कथोद्घातः प्रयोगातिशयस्तथः । प्रवृत्तकावलगिते पञ्चाङ्गान्यामुखस्य तु ।। .... ..... .... .... .... सूत्रधारस्य वाक्यं वा यत्र वाक्यार्थमेव वा । गृहीत्वा प्रविशेत् पात्रं कथोद्घातः स कीर्तितः ॥
(अ)
एषामन्यतमं श्लिष्टं योजयित्वार्थयुक्तिभिः । पात्रग्रन्थैरसैबाधं प्रकुर्यादामुखं ततः ।।
-नाट्यशास्त्रम् २०.३०,३१,३३,३५,३८ (आ) सूत्रधारो नटी ब्रूते मार्ष वाथ विदूषकम् ॥
स्वकार्य प्रस्तुताक्षेपि चित्रोक्त्या यत्तदामुखम् । प्रस्तावना वा तत्र स्युः कथोरातः प्रवृत्तकम् ।।
प्रयोगातिशयश्चाथ वीथ्यङ्गगानि त्रयोदश । तत्र कथोद्घात:
स्वेतिवृत्तसमं वाक्यमर्थं वा यत्र सूत्रिणः । गृहीत्वा प्रविशेत् पात्रं कथोद्घातो द्विधैव सः ।।
--दशरूपकम् ३.७-१० तिदूषक-नटी-माः, प्रस्तुताक्षी भाषणम् । सूत्रधारस्य वक्रोक्त-स्पष्टोक्तैर्यत् तदामुखम् ।। वाक्यार्थ-समयाह्वानैर्भावोक्तैः पात्रसङ्क्रमः ।
-नायट्दर्पणम् ३.३-४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org