________________
164
Mallika-Makaranda
(आ)
हस्तमन्तरित कृत्वा त्रिताकं प्रयोक्तृभिः । जनान्तिकं प्रयोक्तव्यमरवारितकं तथा ।।
-नाट्यशास्त्रम् २५.८-९२,९४ नाट्यधर्ममपेक्ष्यैतत् पुनर्वस्तु विधेष्यते ।। सर्वेषां नियतस्यैव श्राव्यमश्रव्यमेव च । सवश्राव्यं प्रकाशं स्यादश्राव्यं स्वगतं मतम् ॥ द्विधान्यन्नाट्यधर्माख्यं जनान्त पवारितम् । त्रिपताकाकरेणान्यानपवायरा कथम् ॥
अन्योन्यामन्त्रणं यत् स्याज्जनान्ते तज्जनान्तिकम् । रहस्य कथ्यतेऽन्यस्य परावृत्यापवारितम् ।। कि ब्रवोष्येवमित्यादि विना पात्रं ब्रवीति यत् । श्रुत्वेवानुक्तमप्ये कस्तत्स्यादाकाशभाषितम् ।।
- दशरूपकम् १.६३-६०
(इ) प्रकाशं ज्ञाप्यमन्येषां, स्वगतं स्वहृदि स्थितम् ।
परावृत्य रहस्याख्याऽन्यस्मै तदषवारितम् ॥ त्रिपताकान्तरोऽन्येन, जल्यो यस्तज्जनान्तिकम् । आकाशोक्तिः स्वयं-प्रश्न-प्रत्युत्तरमपात्रकम् ।। उक्तत्वःद् वक्ष्यमाणत्वाद्, भूयः कार्याद् यदुच्यते ।
तत् कर्णे श्रावयेद् येन, न याति पुनरुक्तताम् ।। उक्तं पूर्व वक्ष्यमाणं पुरः प्रकाशमानं, प्रपोजनवशाद् भूयोऽपि यद् वृत्तमुच्यते तत् पुनरुक्तताभयात् पात्रस्य कर्णे कविः श्रावयेत् । तथा च दृश्यते 'कणे एवमेव' ।
-नाट्यदर्पणम् १.१२-१३,१६ (सविवरणम्) विष्कम्भकः मध्यमपुरुषैनित्यं योज्यो विष्कम्भकोऽत्र तत्त्वज्ञः ।
संस्कृतवचनानुगतः संक्षेपार्थः प्रवेशकवत् ।। शुद्धः संकीर्णो वा द्विविधो विष्कम्भकोऽपि कर्तव्यः । मध्यमपात्रः शुद्धः संकीर्णो नीचमध्यकृतः ॥
प्रवेशकः अङ्कान्तरालविहितः प्रवेशकोऽर्थक्रियां समभिवीष । संक्षेपात्तन्धोनामानां चैव कर्तव्यः ।।
--नाट्यशास्त्रम् १८.५४-५५-५६ वृत्तवतिष्यमाणानां कथांशानां निदर्शकः । संक्षेपार्थस्तु विष्कम्भो मध्यपात्रप्रयोजितः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org