________________
यदुसुन्दरमहाकाव्य
शौरेः सुधामधुरमुद्गृणतोऽतिहृद्यं
वाचां चयं प्रतिपदं नु मुदं दधाना । बालाऽवधाय विकचाननपङ्कजं सा
संलापसम्मुखमथो सुमुखी चकार ॥१५१॥
सङ्क्रान्तविश्वजनविश्वजनीनभावा
प्रेक्षावतां विमलदणिकेव दृष्टिः । सा त्वादृशस्य सुतरां मदुपेक्षणीये
काऽभ्यर्थना सुरजनेऽपि मुहुः प्रयस्य ॥१५२॥
त्वं वा वितर्कय सुपर्वगणोऽतिखवा
कि मानुषी सुमलिनामुररीकरोति । हंसोऽवमत्य वरटामपि किं बलाकां
प्रायो निसर्गधवलां परिरिप्सतीति
॥१५३॥
का किन्नरीषु नरदैवतभोगलीला
द्वैराज्यसिन्धुतटगाहतरीषु नारी । लाभिविना मयि रतिः क्वचिदस्तु तेषां
. निििक्तकस्य ननु काचमणावपेक्षा ॥१५४।।
तद्गौरवादपि शृणोमि गिरस्त्वदीया
दाम्पत्यमेव घटते न ममामरेण किं वा विभावय चिरं पृषती वराकी
दन्तावलं मदकलं तुलयाऽभ्युपैति
॥१५५।।
अत्रान्तरे तरललोचनयाऽऽलिरुक्ता
सूक्त्याऽलपत्समुपकर्णय तद्रहस्यम् । एषा नृदेव ! वसुदेवपतिं विनाऽन्यं
.:. नाशंसते हि मघवन्तमपि प्रतीहि
॥१५६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org