________________
१५२
Jain Education International
पद्मसुन्दरस्वरिविरचित
वीक्ष्य तत्र मगधावनिशको
विक्रमं यदुपतेरसदृक्ष । स्वं पराजयमुवाच सशङ्को
द्राक्समुद्रविजयं स्वजयाय ॥४९॥
प्रातिहारिकनरो जितकाशी
कोऽप्ययं द्रुतममुं निगृहाण | यद्विडम्बयति विष्टपवित्र
क्षत्र वंश्यनृपकीर्तिपताकाम् ||५०||
अष्टभिः सह समुद्रनृपोऽथाऽ
भिक्रमं विदधते स्म सगोत्रैः । तत्प्रचक्र करिबृंहितसिंह
ध्वानडम्बरितमम्बरमासीत् ॥ ५१ ॥
तत्प्रयाणमुरजस्वनझञ्झा
-
झाकृतिप्रसृमरप्रतिनादैः । मुद्रिताः सपदि दिग्गजकर्ण
स्कारकोरकुटीतटदेशाः ||५२ ||
अभ्यमित्रमभिवीक्ष्य समुद्रं
सैन्यपूरपरिभूतसमुद्रम् |
स्वीयबन्धुजनसङ्घटनाभि
--
र्यादवः परमसम्मदमाप ||५३ ||
दर्शयामि निजपौरुषमेषा
मित्युदीर्य धनुषः स्वनितेन ।
आजुहाव समराय स वीरा
शंसने सपदि वीरकरीरान् ॥५४॥
For Private & Personal Use Only
www.jainelibrary.org