________________
यदुसुन्दर महाकाव्य
इह नन्दिनीवृत्ते प्रतिपादमाद्याक्षरद्वयपाते रथोद्धतावृत्तेन समरवर्णनम् ।। वर्णद्वयच्युतकम् ।। वृत्तद्वयश्लेषश्च ॥ लसत्कटकता तीक्ष्णा करजावलिवद्घना | राजत्याजीरजोराजी धूसरश्रियमाश्रिता ॥४३॥ ।। इह कण्टककरपादाब्दिन्दुच्युतकम् ॥
कुः काङ्ककङ्ककैकाकि
काकिकाककुकैकिका |
काकाङ्ककककाकाक
ककाकुः कङ्ककाकका ||४४ || || एक व्यञ्जनचित्रम् ।
काकोलकालकङ्काल
कीलालालककाकुला ।
कुः कालिका ललल्लोलेs
Jain Education International
लीका कलकलाकला | ४५|| || द्वयक्षरचित्रम् ! |
स्वक्षुरप्रविशिखैरपि कस्य
छत्रमन्यनृपतेस्तु पताकाम् | चिच्छिदे यदुरथान्यतरेषा
मग्रहीन्मुकुटकुण्डलभूषाम् ॥४६॥
कोऽपि खड्गलतया निजकण्ठं
लोठितं वरणदामवृतं च । अप्सरोभिरभितो मुदिताभि
दिव्यपश्यदिह दिव्यशरीरः ॥४७॥
सङ्गता दिविजता दिवि नादं
दुन्दुभेः सुरतरुप्रसवानाम् । वर्षणं कृतवती जितशत्रो
मूर्ध्नि यादवपतेरुपरिष्टात् ॥४८॥
For Private & Personal Use Only
१५१
www.jainelibrary.org