________________
पद्मसुन्दरसूरिविरचित मन्यते विधुमरालमृणालं
__भानि पुष्करकणानलिमालाम् । तामसी स्वदयिताविरहार्तः
पश्य पद्मबिसमत्ति न कोकः ।।७।।
शर्वरीविरहभीरुरयं ते
निस्तलस्तनजविभ्रमशोभी । कान्तयाऽऽतपमपि त्रिदशद्रु
च्छायमेव मनुते ननु तेन ॥८॥
पमिने निजकरेण करेणु
सल्लकीकिशलयानि ददानाम् । वीक्ष्य भामिनि ! निभालनभङ्गी
विभ्रमैरनुगृहाण निजैर्माम् ।।९।।
किन्नरः स्वदयिताऽधरबिम्ब
चुम्बति स्वललनापरिरम्भम् । त्वं निशामय मयुः कुरुतेऽसौ
तौ मिथो रतिमथ स्पृहयन्तौ ॥१०॥
कृष्णसार इह कृष्णशिरस्ये
___ स्वाननस्थयवसेन कुरङ्गया । सग्धिमिच्छति तदीयविषाण
प्रेमघर्षणनिमीलितदृष्टया ॥११॥
कुन्दसुन्दरदरस्मितमुग्धे !
पश्य मञ्जमकरन्दकदम्बम् । एकतामरसपात्रनिलीनं
साऽलिनी यदलिना पिबति स्म ॥१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org