________________
पद्मसुन्दरसरिविरचित
स इयेष दातुमथ तां सुतां तदा
यदुर्ग स्वदूतवचसेत्यचीकथत् । तव पाचवारि किल मन्मनोरथा--
कुरमद्य पल्लवयताद्गृहागमात् ।।७।।
अनुगृह्यतां कनकवत्यथो कुल
द्वयमेव मे किल भवत्पदार्पणैः । क्व च माशा हि भवतः सुराचल
प्रतिमस्य पीठपरिकल्पनक्षमाः ॥८॥
स ततो निपीय नृपदूतजल्पिता
न्यहमेमि तत्प्रणमनाय पादयोः । स्वगुरोरुदीर्य तमिति व्यसर्जयद्
यदुपः प्रयातुमथ तं प्रचक्रमे ।।९॥
श्रुतदूतवागवनिपो यदं तदा
गमयांचभूव कलितेक्षणक्षणम् । स शिखावलः किल गमीरगर्जितं
विनिशम्य वारिदमिवोर्ध्वकन्धरः ॥१०॥
अथ धीरधीः पुरुपुरन्ध्रिनायिका
कृतदारकर्मकरणीयकर्मठा । समयस्पृशं विधिमुपादिशद्गृही
गृहिणी प्रमाण इह कर्मणि ध्रुवम् ॥११॥ अधिवासनाय पटवासकस्य हे
न सुकेशमानिनि ! चिरं विलम्बय । अयि । वर्तिवस्तुकरवर्तमुत्सुके !
तनु वर्तयेति विनिनाय साऽपराः ॥१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org