________________
।। सप्तमः सर्गः॥
अथ वृष्णिसू.नुरुपकारिकामगाद्
वरभानुरूपवरवर्णिनीवृतः । पठतस्तदीयगुणवंशशंसनं
पटुबन्दिनः पथि ददद्घनं धनम् ॥१।।
करवारिदः कनकविद्युता लस
न्नधिवर्षति स्म वसुवारि तत्तथा । यदपस्य मार्गणगणैमनोरथा
तिगमुज्झितं जवसवद्यथा पथि ॥२॥
अधिमूनिनाय मिथुनं करग्रह
प्रतिकर्मनिर्मितिविधेविधित्सया । अवरोधमस्य समयोचितक्रियाः
प्रमदाः सृजन्त्विति जगाद बल्लभाम् ॥३॥
वर एष भामिनि ! वरेण्य उज्ज्वला
न्वयसन्धया स्म जननं पुनाति नः । निजरूपसम्पदतुलश्रिया स्मर
स्मयमेव निम्नति किं बहु ब्रुवे ॥४॥
विधाम लौकिकविधिं पुराविदा
मुदितं यथाश्रुतमुपश्रुतं जने । विनिगद्य चेति निरगादगारतः
स धराधवः परिणयोद्धवोद्धरः ।।५।।
गणकानुवाच स च लग्नमुत्तमं
निगदन्तु दन्तुरितमंशशंसनैः । जगदुस्त एतदुदयास्तनिर्मलं .
सुरसूरिसूरशशिवीर्यवत्तमम् ॥६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org