SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ॥ पंचमः सर्गः ॥ तामिन्दुसुन्दरमुखीं शिविकाधरस्थाः सद्यो नृपान्तरमथ स्म नयन्ति विज्ञाः । लेषोक्तिमाशुक्रवयः कवितानुभावाद् __ भावान्तरं समुदितां विविधैरिवाथैः ॥१॥ द्वा:स्था जगाद जगदेकमुदे तवास्तु पाण्ड्येन पाणितलपीडनमीश्वरेण । लेखेव काञ्चनमयी भवती विभातु रुच्येन मेचकरुचा निकषोपलेन ॥२॥ अध्यैष्ट यः सकलकामरहस्यशास्त्र मभ्यस्यताद्रतिरहस्यमनगरङ्गात् । अङ्गे तवेव नखखण्डनमण्डनेन रागारुणेन नयनेन सरागलक्ष्म्याः ॥३॥ अस्यारियौवतकुचौ वनकुम्भिकुम्भ बुद्धया हरिः प्रविददार पुनारुदत्याः । शौकेन दाडिमकणप्रतिमान्निभाल्य . दन्तान्मुखं वरतनात दश्यते स्म ॥४॥ नेदं गर्जितमूर्जितं रणरणत्तूर्यस्वनाडम्बर स्तस्येयं करवालिका नवतडिन्नवाम्बुदाः कुम्भिनः । एतत्सैन्यरणाङ्गणादरिगणस्त्रैणानि भीतद्रुता न्येवं वारिदवारमेत्य मुमुहुर्वन्यासु नेशुर्मुहुः ।।५।। अस्योद्दन्तुरदन्तिनः परिलसत्कादम्बिनीश्यामलान् सिन्दूरारुणकुम्भविभ्रमभृतः सङ्ग्रामरङ्गोद्धरान् । तत्सायन्तनरागसक्करतमः संलक्ष्य शङ्काकुलाः साहस्रारिभुजासहस्रकिरणाः शङ्केऽस्तमीयुतम् ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002642
Book TitleYadusundara Mahakavya
Original Sutra AuthorPadmasundar
AuthorD P Raval
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages206
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy