________________
६७३
अज्ञातकृत
विक्रमादित्यस्य
शत्रुंजयादितीर्थयात्रा
श्री सिद्धसेनदिवाकरप्रतिबोधितस्य विक्रमादित्यस्य श्रीशत्रुंजयादितीर्थयात्राविस्तरीयं - श्रीसंघे १४ नृपा मुकुटवर्द्धनाः, ७० लक्षा श्राद्धकुटुंबानां श्रीसिद्धसेनगणधरादयः, ५००० सूरीणां १६९ सौवर्ण देवालयाः, १ कोटि : १० लक्षाः ९ सहस्रमितानि शकटानां, १८ लक्षास्तुरंगमानां, ७६ शतानि गजानां एवं करभवृषभादिमानं ज्ञेयं. १
थिरापद्रे संघपति आभूः श्री श्रीमालज्ञातीय: पश्चिममंडलीकबिरुदं वहन् बभूव . यस्य यात्रायां ७०० शत देवालये, द्वादश १२ कोटिस्वर्णव्ययः प्रथम यात्रायां कृतः, ३ कोटिटंक्कैः सरस्वतीभांडागारे वर्त्तमानसर्वागमप्रतिरेका सौवर्णाक्षरा द्वितीया सर्ववर्त्तमानग्रंथप्रतिर्मस्यक्षरमयी, ३६० आत्मसदृशाः साधर्म्मिकाः कृताः, संघे ७०० महिषाः पानीयानयनाय, ७०० आचार्यपदानि कारितानि सूनेत- माद्रक्रूरग्रामयोः प्रासादौ सारु आर घाटमयौ कारितौ संस्तारक - दीक्षावसरे सप्त कोटी द्रव्यव्ययः कृतः सप्तक्षेत्रेषु. २
Jain Education International
मंडपदुर्गे संघपति पेथडेन प्रथमयात्रायां ११ लक्षाः टंका रुपमयानां व्ययश्चक्रे, संघे ७० मनुष्याणां देवालयाः, ५२ मंडपगढे जिनप्रासादशतं तत्र चोपरि स्वर्णमयाः कलशा: कारिताः, श्रीधर्मघोषसूरीणां महोत्सवे ७२ सहस्र द्रव्यव्ययः कृतः भृगुकच्छे यो भांडागारमली लिखत्. ८४ प्रासादाः कारिताः, श्री गिरिनार महातीर्थे समकालमेव वेतांबर दिगंबर श्रीसंघः प्राप्त: श्वेतांबर दिगंबराणां परस्परं तीर्थविवादो जातः, संघपति द्वयस्यापि मध्ये य इंद्रमालां परिधास्यति तस्य तीर्थमिदमिति वृद्धबहुजनोक्तौ पेथड संघपतिना सुवर्णस्यैव ५६ घटीप्रमाणस्येंद्रमालापरिधापनं चक्रे तीर्थं च स्वकीयं कृतं येन श्रीधर्मघोषसूरीणां पार्श्वे परिग्रहप्रमाणं पूर्वं गृहीतं टक्कशतद्वयप्रमाणाभिग्रहे सति पुरुषभाग्यनि:सीमत्वमिति श्रीगुरुवचनेन लक्षत्रयप्रमाण द्रव्याभिग्रहो गृहीतः ततोप्यधिकद्रव्यप्राप्तौ देवगुरुयोग्यमिति नाम दत्तं द्रव्ये : ३
तस्य सुतो झांझणदेवः समजनि, तेन श्रीशत्रुंजय श्रीगिरिनार महातीर्थयोरेकैव ध्वजा दत्ता, तेन राजाधिराजा सारंगदेवस्य कर्पूरार्पणसमये राजा प्रसृतिविधानं कारित: ४
संप्रतिभूपेन सपादकोटिप्रमिता जिनप्रतिमाः कारिताः, सपादलक्षमिता जैन प्रासादा: कारिताः, सिंधुदेशमध्ये मरोटग्रामे ९५ सहस्र प्रतिमाः पित्तलमया अद्यापि संति, ७०० सप्तशतानि दानशालायां येन स्वकीय वंठाः साधुसमाचारी शिक्षयित्वा साधुवेषेण सर्वदेशमध्ये प्रथमं प्रेषिताः, पश्चात् सत्यसाधवः, ३६ सहस्र प्रासादा नवीनाः अन्ये
For Private & Personal Use Only
www.jainelibrary.org