________________
२०
श्रीजिनभद्रसूरिरचिता
[ प्रथमः गृहदीर्घिकाभिरिव सुतरङ्गसंगताभिः, सुशोभनवपुष्कराभिः सदालिमालाऽलङ्कृताभिः हैारलताभिरिव निजधवलाऽऽभाऽवभासितहृदयाभिर्नाभिमानकलिताभिर्मुक्ताफलाडम्बराभिनिजदृष्टिभिरिव सदाचरणलीनाभिरुच्चरञ्जनाभिरामाभिः सुंलज्जमानाभिः शुभगुरुदेशना
१. 'गृहदीर्घिकाभिः इव' इत्यादिना 'सदर्थालंकारसाराभिः' इत्यन्तेन पदसमूहेन उपमानउपमेयभावेन कुलबालिकास्वरूपवर्णनं प्रतीयते । 'कुलबालिका'पदेन कुलस्त्री अवगन्तव्या "कुलस्त्री कुलबालिका" (-अभि. चिं. कां० ३, श्लो० १७९) ।
२. सुतरङ्गसंगता शोभनैः तरङ्गः संगता गृहदीर्घिका, सुतानां-पुत्राणां, रङ्गेण- नृत्येन संगताः कुलबालिकाः-कुलस्त्रीकोडेषु यत्र सुता नृत्यन्ति इति भावः ।
३. सुशोभानि नवानि पुष्कराणि जलानि अम्बुजानि वा दीर्घिकासु । “पुष्करं......खे जले अम्बुजे" (-हैम-अनेका० कां० ३, श्लो० ६१४, ६१५)। वपुः कुर्वन्ति इति वपुष्कराः कुलबालिका हि सुशोभनं वपुः कुर्वन्ति इति सुशोभनवपुष्कराः ।
४. दीर्घिकापक्षे पुष्कराणि हि सदा अलिमालाभिः अलंकृतानि भवन्ति । कुलबालिकापक्षे ताभिः कण्ठनिहिताः पुष्करमालाः सुगन्धमयत्वेन सदा अलिमालाभिः अलंकृता भवन्ति अथवा सदा आलिमालाः सखीसमूहः तेन कुलस्त्रियो हि सदा अलंकृताः भवन्ति । अथवा सत्यश्च ताः आलिमालाश्च सदालिमालाः अलिमालाः सत्यः सज्जनरूपाः ताभिश्च अलंकृता इति ।
५. 'हारलता०' इत्यनेन कुलबालिकावर्णनम् । यथा हारलता निजधवलिम्ना आभारूपेण गुणेन हृदयं अवभासयति तथा कुलस्त्री निजरय धवस्य पत्युः लाभेन स्वीयं हृदयम् अवभासयति अथवा निजया धवलया आभया हृदयम् अवभासयति ।
६. [ उज्ज्वलाक्षतं हृदयं यकाभिस्ताभिः ।] ७. [ अभिमान०-अहंकारेण ।
सा हारलता नाभिमाना नाभिपर्यन्ता नाभिमानकलिता, मानं परिमाणम् । तथा मुक्ताफलानाम् आडम्बरेण सहिता कुलस्त्री, अभिमानेन न कलिता-अभिमानरहिता-नम्रा विनयवती तथा मुक्ताफलस्य-घनसारस्य-कारस्य आडम्बरेण सहिता, शरीरे सुगन्धनिमित्तं कर्पूरचूर्णलेपेन इदं विशेषणं युक्तियुक्तम् । “मुक्ताफलं घनसारे मौक्तिके" (-हैम-अनेका० कां० ४, श्लो० ३०८)।
८. [सद्०-सताम् ।]
यथा कुलस्त्रीणां निजदृष्टिः, सदा नित्यम् , चरणलीना पादाग्रलीना गमनावसरे कुलम्त्रीदृष्टिः इतस्ततो न भ्रमति तथैव कुलत्री सदाचरणेषु शुभाचरणेषु लीना, 'सदा चरण' तथा 'सदाऽऽचरण' इति विभागः ।
९. [महतां रञ्जनेन ।]
उच्चैः-उच्चैस्तरेण उत्तमेन अञ्जनेन अभिरामा उच्चैरञ्जनाभिरामा। अञ्जनाभिरामा हि दृष्टिभवति अञ्जनेन अभिरामा-अञ्जनमनोहरा, अथवा उच्चैः उत्तमेन रञ्जनेन रागेण अभिरामा शरीरे उत्तमरागवती । दृष्टिपक्षे अञ्जनम् । कुलस्त्रीपक्षे अञ्जनं रञ्जनं वा ।
१०. दृष्टिर्हि लज्जमाना मनोहरा । कुलस्त्रीपक्षे लज्जा हि मर्यादा । जैनप्रवचने संयमस्य अपरं नाम 'लज्जा' इति प्रतीतम् । ततः सुलज्जमाना संयमवती कुलस्त्री।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org