________________
उच्छ्वासः ]
मदनरेखा-आख्यायिका भीमेन, कलहंसकमलैकवसतिनापि न कलहं समाश्रितेन, धनदेनापि न कुबेरेण, समस्तवर्णीभिरामेणापि विशदेकवर्णेन पौरजनेन शोभमानैरनेकशतसहस्रसंख्यै रम्यहम्यैरनिमिषीकृतसकलदिगन्तागतजनसमूहम् ।
प्रियदेव-गुरूपास्तिनिष्ठैः शिष्टेरिवाकूटसुघटबहुमानैः कलिकालविलसितैरिव बहुधाऽसद्धान्याधारैजननी हृदयैरिव बहुविधस्नेहपूरितवैयाकरणच्छात्रैरिव क्रियमाणविचित्रसूत्रविचारः, सुरेन्द्ररूपैरिव प्रभूतनेत्राम्बरश्रियं धारय भिः, सरोवरैरिव घेनसारसहितैः, केसरिकिशोरैरिव मैगमदामोदहारिभिः, प्रमदवनैरिव सुजातरूपनागरगैरापणगरीनन्द्यमानानेकक्रयिक-विक्रयिकसंघातम् ।
१. यत्र कमलानि सन्ति तत्र कलहंसा अपि स्युः । अत्र तु सत्सु अपि कमलेघु न कलहं प्रति समाश्रितता, कलहो हि क्लेशः न तस्य अत्र समाश्रयः ।
२. धनदः धनदाता श्रेष्ठी, न स कुबेरसंज्ञया विख्यातः अथवा न तस्य शरीरं कुत्सितम्कुबेरो हि कुष्ठी इति प्रसिद्भिः ।।
३. वर्णाः-क्षत्रिय-ब्राह्मण-वैश्य-शूद्राः तैः अभिरामेण, अपि तत्र विशदः वर्ण एक एव । विशदः शालीनः अधृष्ट इति ।
४. [ पुनः किंभूतं पुरम् ? अनिमिषीकृतो निमिषरहितो विहितः सकल:-समरतः दिगन्ताद देशान्तरादागतो जनसमूहो येन तत् पुरं तथा । कैः कृत्वा ? एवंविधरम्यहम्यः ।]
५. अकूट सत्यं वास्तविकम् । कुटम् असत्यम् ।। ६. कलिकालपक्षे 'बहुधा असदधान्य' इति विभागो योज्यः ।
७. वैयाकरणा:-व्याकरणं पटन्तो हि छात्राः बहुधा विचित्राणि ज्याकरणसूत्राणि विचारयन्ति, पक्षे सूत्रं हि व्यवस्था ।
८. सुरेन्द्रो हि सहस्राक्षः प्रभूतनेत्रः इति प्रसिद्धम् । अम्बरश्री:-गगनश्रीः । पक्षे नेत्राणि परिधानविशेषरूपाणि पटोलाप्रमुखवस्त्रभेदरूपाणि-" नेत्रं नयनम् परिधानविशेष:"(हैमलिङ्गा०विव० पृ० १३१) अम्बराणि च सुरभिद्रव्यविशेषरूपाणि महर्षाणि भाषायाम् "अम्बर'नाम्ना प्रसिद्धानि तेषां श्रीः । “अम्बरं वाससि व्योम्नि कर्पासे स्यात् सुगन्धके”-(हैमलिङ्गा० विव० पृ० १६१)
. ९. सरोवरे हि घनाः बहवः, सारसाः सारसपक्षिणः, तेषां हितरूपैः सरोवरैः पक्षे धनसारः करः, तेन सहितैः ।
१०. [मृगमदः-कस्तूरिका तस्याः मोदेन-परिमलेन ] हारिभिः सुन्दरैः प्रमदवनैः । [मृगाणां-हरिणानाम् , मदं-अहंकारम् तस्य आमोदं हरन्तीत्येवंशीलास्सैः केसरिकिशोरैः]
११. [शोभनं जातरूपं सुवर्णम् , नागं सीसकम् , रङ्गं कश्मीरं येषु तैः । अन्यत्र सुजातरूपाः शोभनाकृतयः, नागरङ्गाः नारङ्गफलानि येषु तैः आपणगणैः ।]
प्रमदवने सुजातरूपाः-मनोहररूपसहिताः, नागाः नागकुमाराः तेषां रङ्ग:-नृत्यम् । आपणपक्षे सु शोभनम् , जातरूपं सुवर्णम् , 'नाग' इति नागकेसरम् , 'रङ्ग' इति तन्नाम्ना प्रसिद्धो धातुविशेषः-भाषायां 'रांगा' इति-प्रसिद्धः । अथवा नागरङ्गा 'नारङ्ग'नाम्ना प्रसिद्धानि फलानि तानि च पक्कानि अत एव सुजातरूपाणि । ____1 °मेन कमलै ख। 2 हंसम डे । 3 हपूरै ल । 4 °चित्रै [:] सू डे । 5 रूपकैरिव डे । 6 रानिन्ध डे ।
Jain Education International
For Private & Personal Use Only.
www.jainelibrary.org