________________
श्रीजिनभद्रसूरिरचिता
[ प्रथमः ऽपि सतां गणेन सुधार्मिकालङ्कारै रामणीयकगुणैरपुराऽपि पुरी जेतव्येति कोटिपताकापदेशविरचितपत्रावलम्बनैरभिमतैर्द्विधाऽपि संप॑द्यमानगुणसमृद्ध्या, संतमसमृद्धिं नयन्तीमुच्हे तुमिव विभावरी संगृहीतानेकलक्षदीपकोटिभिविभूषितैद्विधाऽपि सदा रामाभराभरणेन सर्वस्वापहारकं स्खलयितुमिवादित्यमण्डलमेभ्रङ्कषामुन्नतिं दधानैराक्रान्तैः ।
द्विधापि संदा-नभोगमनसामर्थ्यविभवेन श्रीधरेणापि में वै-कुण्टेन, महेश्वरेणापि न
१. पुरा-पुरातनी, अपुरा-अपुरातनी नवीना इत्यर्थः, अर्थात् भोगवती नगरी अधःकृता इति अन्या नवीना नगरी जेतव्या इति आशयः । अत्र 'अपुराऽपि' पदस्थाने 'अपराऽपि' अन्याऽपि इति पाठः समीचीनः ।
२. जय-पराजयवादकथायां पत्रस्य अवलम्बनं युक्तम् , "चतुरङ्गो वादः पत्रावलम्बनमपि अपेक्षते", तल्लक्षणम् एवम्- "प्रसिद्धावयवं वाक्यं स्वेष्टस्यार्थस्य साधकम् । साधु गूढपदप्रायं पत्रमाहुरनाकुलम्" ।। (-प्रमेयक० पत्रविचारे पृ० ६८४)। अत्रापि 'नगरी जेतव्या' इति हेतोः पूर्वोक्तस्य पत्रस्य अवलम्बनम् उचितम् । पताकामिषेण विरचितानां पत्राणाम् अवलम्बनं कल्पितम् । पक्षे पत्ररूपा एव पताकाः ।
३. [अभिमतैः इष्टः गृहैः ।। ४. [संपदि-समृद्धौ ।]
संपदि-लक्ष्म्याम् अमानगुणसमृद्ध या अपरिमितगुणसमृद्ध या अथवा संपद्यमानगुणसमृद्धया संपद्यमानं प्राप्यमाणम् । 'समृद्धया पुरी जेतव्या' इति अन्वयः ।
५. [ सन्तं शिष्टम् , असमृद्धिम् असंपदम् ।]
संतमः घनान्धकारः तस्य समृद्धि नयन्तीं विभावरीम् । विभावरी हि अन्धकारसमूहं नयति इति प्रतीतम् । 'तम'शब्दः अकारान्तोऽपि ।
६. सुशोभितैः अथवा विभिः पक्षिभिः पक्षिरूपयुक्तैः भूषितैः । दीपा हि मयूराकाराः, अथवा अन्यपक्षिरूपाकाराः पित्तलधातुमयां: दृश्यन्ते ।
७. सदा नित्यं रामा:-रमण्यः तासाम् भरः समूहः तस्य आभरणेन । ८. सर्वेषां स्वापं निद्रां हरति इति सर्वस्वापहारकम् , आदित्यमण्डलम् इति अन्वयः ।
९. दीपाः हि शोभार्थम् अतिशयेन ऊर्ध्वमेव स्थाप्यन्ते इति अभ्रंकषाम् उन्नतिं दधानः दीपकोटिभिः विभूषितैः इति सुसंगतम् ।
१०. सदा सततं, नभोगाःनभोगामिनः विद्याधराः, अथवा सिद्धगगनगामिविद्याः, तेषां मनसा चित्तानाम् अर्थ्यविभवेन प्रार्थनीयविभवेन । सदान-भोग-मनसाम्-दानेन भोगेन च सहितं मनः येषां तेषां सदानभोगमनसाम् , अथवा तादृशमनोभिः प्रार्थनीयविभवेन । अथवा सदानभोगमनसामर्थ्यविभवेन सदा गगनगमनशक्तिशालिना, इदं श्रीधरविशेषणम् , श्रीधरो विष्णुः तथा लक्ष्मीधरो धनी च।
११. 'न वै कुण्ठेन' इत्यपि विभागो वोध्यः-वै निश्चितम् न कुण्ठेन किन्तु वैकुण्ठेन । वैकुण्ठः-विष्णुः ।
1 सुधर्माल खल। 2 °रा पुरी डे, राऽपि पुरी ल। 3 संसृता खल। 4 °माभिरा डे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org