________________
१७
उच्छ्वासः ]
मदनरेखा-आख्यायिका प्राकारे न ज्ञानतिरस्कारे, सुप्रभावनयप्रगल्भता महामन्त्रिमन्त्रसर्गे न सेवकवर्ग, वृषलोपकरणकलाङ्गहारचतुरता नटेषु न भटेषु, सैगुणसकर्णसुवृत्तसुपात्रजडयोजना कूपेषु न भूपेषु, उल्लासितविष-म-करघटना सरोवरेषु न पौरनरेषु, संदरघट्टरवो दीर्घिकासु श्रूयते पदे पदे न जनपदे।
विनतानन्दनाशनोपयुक्तभुजङ्गभोगा भोगवतीत्यधःकृत्येव तदुपरि वर्तमानैरलङ्कृतैविधा
१. [क्षत्रियधर्मस्य लोपकरणकलाया अङ्गहारचतुरता पतितस्य नश्यतो वा शीर्षाद्यङ्गच्छेदनकौशलं न । वृषला:-दासाः, उपकरणानि-नाट्यकरणानि, कलाङ्गहार०-गीत-नृत्यादीनाम् ।।
वृषलोपकरणकलया शूद्रोपकरणकलया ये अङ्गहाराः अङ्गनिक्षेपाः तेषु चतुरता नटेषु । अङ्गानां हरणं स्थानात् स्थानान्तरनयनम्-विविधप्रकारेण अङ्गानां निक्षेपणं तद् नटेषु । नटा हि अङ्गनिक्षेपकुशला इति प्रसिद्धम् । वृषस्य धर्मस्य लोपकरणं तद्रूपया कलया अङ्गहारः रिपुजनस्य अङ्गस्य हारः-हरणम् , विनाशो वा । ये सुभटाः युधिष्ठिरादिवद् धर्मयुद्धपरायणाः ते धर्मलोपपूर्वक रिपूणाम् अङ्गम् अङ्गानि वा. न हरन्ति इति प्रतीतम् ।
__२. यादृशी सगुणता, सकर्णता, सुवृत्तता, सुपात्रता, जडयोजना च कूपेषु तादृशी सगुणता, सकर्णता, सुवृत्तता, सुपात्रता, जड़योजना च न भूपेषु । कूपेषु सगुणता रज्जुसहितता, भूपेषु सगुणता सौजन्यादिगुणसहितता, कू० सकर्णता बद्धकण्ठसहितता, भू० सकणता पाण्डित्यं चातुर्य वा । कू० सुवृत्तता वर्तुलाकारता, भू० सुवृत्तता सुचारित्रता । कू० सुपातृ वा सुपात्रं शोभनरीत्या जलपायकव्यवस्था अथवा शोभनपात्रसहिता जलयोजनासहितता, भू० सुपातृता राज्य-जनपद-जनतानां सुरक्षकता। कु० जडयोजना जलयोजना, भू० अजड़योजना अजडानां विशिष्टे विनियोगे योजनम् । सुपातृ+अजड ०-सुपात्रजड ० इत्यपि विभागः ।
३. सरोवरेषु उल्लासितं तरङ्गायमाणं विषं-जलम् , मकराश्च तेषां घटना । पौरजनेष उल्लासिताः वृद्धि प्राप्ताः विषमाः करा:-कठोराः राजदेयाः भागाः न तेषां घटना ।
४. सन्तः विद्यमानाः चलन्तः कूपाद् जलानयनसाधनरूपा रहेंट' इति नाम्ना प्रसिद्धाः ये अरघट्टाः तेषां रवः-ध्वनिः तत्र तत्र दीर्घिकासु-वापीषु पदे पदे श्रूयते । जनपदे न सदरघट्टरवः-सदरः-सभयः, घट्टे 'घाट' इति नाम्ना लोकप्रसिद्ध जलतीर्थे रवः-शब्दः न श्रयते । नद्याः सरोवरस्य वा उपकण्ठं न कोऽपि सभयं रौति-शब्दं करोति ।
५. [ विनतानां-प्रणतानाम् आनन्दनाशनाय-हर्षप्रणाशाय उपयुक्तः सोपयोगो भुजङ्गानां विप्लुतानां भोगो विलासो यस्यां सा एवं सदोषा भोगवती नागपुरी रतिहेतोरधःकृत्य अधो विधाय अवमन्यत तदुपरि वर्तमानैः हम्यैः ।।
विनतानन्दनः-गरुडः, तस्य अशनम् तत्र उपयुक्ता भुजङ्गभोगाः-सर्पदेहाः, अतः भोगवती नगरी अधःकृता । पक्षे विनताः-विनम्राः तेषाम् आनन्दः तस्य नाशनाय उपयुक्ताः भुजङ्गानां गणिकापतीनाम् भोगा:-विलासाः, अतोऽपि भोगवती अधःकृता । अथवा विनताः वक्राः जनाः तेषाम् आनन्दनं यद् अशनम् तदर्थम् उपयुक्ता भुजङ्गानां भोगा विलासाः । अतोऽपि भोगवती अधःकृता । "विनतः प्रणते भुग्ने"-(हेम० अनेका० कां० ३, श्लो० ३२०) भुग्नं हि अनृजु-वक्रम् ।
६. अलंकृतैः-अलंकरणैः-सुशोभनैः । अलं कृतैः अलंकरणैः-अलंकरणानां न प्रयोजनम् इत्येवं 'द्विधा' पदेन भावद्वयं प्रतिभासते ।
1 °मन्त्रिस डे । 2 कृतेत्येव डे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org