________________
श्रीजिनभद्रसूरिरचिता
[प्रथमः निधानं, जिनप्रवचनानुज्ञादानमिव निरस्तसमस्तविग्रहसमुद्देशप्रक्रियाविराजमानम्-अत्रैव भरतक्षेत्रे अवन्तिविषयश्रीधाम पुरं सुदर्शनं नाम । यत्र च, कोपमानोद्दीपना द्विजातिवर्णनासु न शिष्याउँऽकर्णनासु, सदम्भोयोगोपक्रमः सिच्यमानप्रमदवनेषु न मुनिजनेषु, बहुलो-भप्रकाशातिशयो निशावतारेषु न साधुव्यवहारेषु, सततैसमुल्लसद्वेषादिविरचना शृङ्गारोदसे न पराभ्युदये,पैरोक्षदोषवादो विषयवैराग्यविचारेन परकथाप्रचारे, निरवद्यविद्याधरीकरणम् उत्तुङ्ग
१. पु० पक्षे विग्रहः-परच कादिकृतयुद्धादीनि तानि समस्तानि निरस्तानि, अत एव • समुद्देशाः-सम् समीचीनाः, उद् उन्नतिं प्राप्ताः देशाः अंशाः नगरविभागाः तेषां प्रक्रियया विराज
मानम् । जिनप्रवचनपक्षे विग्रहः-विस्तारः जिनप्रवचने हि स्थाने स्थाने 'यावत्'पदेन विस्तारः निरस्तः, तथा जिनप्रवचन विशिष्टविधिना समुद्दिश्यते इत्येवम् आगमवाचनाप्रदानविधिप्रक्रियया विराजमानम् । “विग्रहो युधि विस्तारे" (हेमअनेका० कां० ३, श्लो० ८१३)।
२. [ समुद्देशाः-जनपदाः । प्रक्रियया-रसादिरूपया ।]
३. द्विजातिवर्णनासु कोपस्य मानस्य च उद्दीपना । द्विजाः विप्र-क्षत्रिय-वैश्याः तेषाम् अतिवर्णनाम् ।
४. शिष्यश्रवणेषु न कोपस्य च उद्दीपना ।
५. सद् विद्यमानम् अम्भः-जलम् , तस्य योगोपक्रमः सिच्यमानेषु प्रमदवनेषु । दम्भेन सहितः सदम्भः स चासौ योगश्च तस्य उपक्रमः न मुनिजनेषु, मुनयःनिर्दम्भयोगाः-सरलमनोवचनकायक्रियाः ।
६. बहुल: भप्रकाशः-नक्षत्रप्रकाशः तस्य अतिशयः निशावतारेषु । बहुलोभप्रकाशातिशयो न साधुव्यवहारेषु-साधुवणिजो न बहुलोभिनः । 'साधु'शब्देन वणिजां 'शाह' इति पदवी ज्ञेया ।
[भानि नक्षत्राणि ।]
७. शृङ्गारोदये सततसमुल्लसतां वेषाणां वस्त्रपरिधानरूपाणाम् आदिशब्दाद् भूषण तिलकानां च विरचना । पराभ्युदये सततसमुल्लासानाम् उत्कटानां द्वेषाणाम् अप्रीतिरूपाणाम्-आदिशब्दाद् ईर्ष्यादिदुर्वृत्तीनां ग्रहणम्-न विरचना । अत्र 'समुल्लस'शब्दः 'अच् प्रत्ययान्तः 'समुल्लसत्' इत्यनेन समानार्थः ।
८. [परोक्ष० प्रकृष्ठोऽक्षीणाम् ।।
परः अक्षदोषवादः-परः उत्कृष्टः अक्षम् इन्द्रियं तस्य दूषणवादः विषयवैराग्यविचारे । परकथास न परोक्षदोषवादः-अन्येषाम् अन्यसम्बन्धिनीषु वार्तासु पृष्ठमांसादनवत् पिशुनवद् वा-न परोक्षं यथा स्यात् तथा दोषाणां वदनम् केषांचिद् दोषकथा न ।
९. प्राकारे निरवद्यानां-निर्दोषाणां विद्याधरीणां-विद्याधरीप्रतिकृतीनाम् अर्थाद विद्याधरीघुत्तलिकानां करणम् । प्राकारे हि विविधप्रतिकृतिविधानरूपस्य विविधमूर्ति विधानरूपस्य वा शिल्पस्य करणं प्रसिद्धम् , विद्याया अधरीकरणरूपे अवमाननारूपे ज्ञानतिरस्कारे नैष शब्दःविद्याऽधरीकरणशब्दः-प्रयुज्यते ।
[अधरीकरणम् अवज्ञाविधानम् ।]
1 'निरस्तसमस्तविग्रह' इति पाठः ख आदर्श पतितः। 2 शिक्षाक° डेल । 3 काशो नि डे। 4 तमुल्ल' खल। १. 'अक्षि' शब्दस्य षष्ठीबहुवचने 'अक्ष्णाम्' इति रूपं संभवति, न तु 'अक्षीणाम्' इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org