________________
उच्छ्वासः ]
मदनरेखा-आख्यायिका नरसमूहवशंवदतां न या कृतिरगात् सुरसाऽरचिता यतः ।
गुणमिमामधिरोपयतात् सुधीगिरिशचापलतामिव रोघवः ॥५७॥ तदानीमस्ति हस्तियूथमिव प्रवर्तमानासमानदानसन्तानं, कुलाचलचूलिकाचक्रवालमिवाद्भुतां शैलोन्नतिं दधानं, शिशिरमुखमिव रोमाञ्चजनकपैरमहिमतपःशोभमानं, ज्ञानप्रधानदानविधानमिव स्वभावनोन्नतिसमुल्लसमानं, रसातलमिव खरकरोपतापहीनाहीनसन्तानस्पृहणीय वसुन्धरामण्डलमिव नदी-नद-वनश्रीपरम्परारमणीयं, स्वर्गिवर्गशिखरमिव सर्वोत्तमाच्युतसमृद्धिविलासललितं, अवेयकनवकस्वरूपमिव न-वधूपभोगामोदकलितं, लवसप्तमसुरविमानमिव औसैन्नशिवं सर्वार्थनाम दधानं, अपवर्गस्थानमिव निरस्तसमस्तविग्रह महानन्द
१. या कृतिः सुरसा अरचिता-सुरसयुक्ता न रचिता अत्र एव नरसमूहवशंवदतां न अगात् यतः सुधीः इमां गुणम् अधिरोपयतात् ।
२. यथा राघवः शिवधनुर्लतां गुणम् अधिरोपितवान् तथा सुधीः इमां कथां गुणम् अधिरोपयतात् । गिरिशचापलतापक्षे गुणः प्रत्यञ्चा-धनूरज्जुः । कथापक्षे गुणः कवितागुणः ।
३. पुरपक्षे दानें त्यागः । हस्तिपक्षे दानं-मदः ।। ४. पु० पक्षे शैलं शीलाचरणम्-चारित्रम् । कुलाचलपक्षे शैलाः गिरयः ।
५. पु० पक्षे उत्कृष्टमहिमसहितं तपः । शिशिरपक्षे परमहिमयुक्त; माघमासः । “तपः कृच्छ्रादिकर्मणि", "तपाः शिशिर-माघयोः” (अनेका० कां० २, श्लो० ५९३, ५९४)।
६. पु० पक्षे खरकरैः जातः यः उपतापः तेन हीनम् , करो हि राजदेयो भागः । रसातलपक्षे खरकर:-सूर्यः तस्य उपतापेन हीनम् ।
७. पु० पक्षे अहीनाः संतानाः-पुत्र-पौत्रादिसंतानाः-जनवंशा तैः स्पृहणीयम् । र ० पक्षे अहीनाः सर्पस्वामिनः-नागेन्द्राः तेषां संतानैः स्पृहणीयम् ।
८. पु० पक्षे नदीनां नदः-कलरवः । वसुन्धरापक्षे नदी च नदश्च तौ नदी-नदौ ।
९. पु० पक्षे सर्वोत्तमाः अच्युताः-स्थायिस्थानप्राप्ताः तेषां समृद्धया विलासेन ललितम् । स्वर्गिपक्षे अच्युतो नाम उपरितनः स्वर्गः तस्य समृद्धिविलासललितम् । अथवा लोके वैकुण्ठनामकं स्वर्गगतं सर्वोत्तमं स्थानं प्रसिद्धम्, तत्र स्थितस्य अच्युतस्य श्रीकृष्णस्य या समृद्धिः तस्या विलासेन ललितम् इत्यपि ज्ञेयम् ।
१०. पु०पक्षे नवधूपः- नवीनधूपः |वेयकपक्षे न निषेधे वधूपभोगः-स्त्रीसङ्गोपभोगः । ग्रैवेयकनाम्नि स्वर्गे स्त्रियः न सन्ति इति जैनप्रवादः अर्थात् न वधूपभोगामोदकलितम् ।
११. पु०पक्षे समीपकल्याणम् । जैनपरिभाषया लवसप्तमपक्षे आसन्नशिवस्थानम् आसन्नसिद्धशिलम् ।
१२. पु०पक्षे सर्वेषाम् अर्थानां नाम दधानम्-सर्वार्थसहितम् । लव० पक्षे 'सर्वार्थ' इति संज्ञां दधानम्, 'सर्वार्थसिद्ध' इति लयसप्तमसुरविमानस्य संज्ञा इति जैनः प्रवादः ।
१३. पु०पक्षे विग्रहः-अशान्तिजनकानि युद्धादीनि । अपवर्गपक्षे विग्रहः-शरीरम् ।
१४. पु०पक्षे महानाम् उत्सवानाम् आनन्दस्य निधानम् । अप०पक्षे महानन्दस्य मुक्तिसुखस्य निधानम् ।
1 °णीयाधारं व डे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org