________________
श्रीजिनभद्रसरिरचिता
[ प्रथमः तच्छिष्याः पद्मप्रभ-हेमप्रभ-नेमिचन्द्र-जिनभद्राः । अनुयोगद्वारसमाश्चत्वारः ख्यातसूरिपदाः ॥५१॥ बिभ्राणः सततं सिताम्बररुचिं लब्धोत्तमाङ्गावधिः
___ प्रादुर्भूतमनोहराजवगुणः स्फुर्जयशःसौरभः । जज्ञे तेषु सभालसद्घनतमस्फीतिःसुरेखोदयः
श्रीचन्द्रप्रभसूरिपट्टतिलकः श्रीनेमिचन्द्रो गणी ॥५२॥ निःशेषशास्त्रपङ्कजमकरन्दामोदमेदुरस्वान्तौ । हरिभद्रसूरि-रत्नप्रभाभिधौ यस्य शिष्यवरौ ॥५३॥ मुनीन्द्रचन्द्रप्रभसूरिपादप्रसादसारस्वतमाकलय्य । जडोऽपि धृष्टत्ववशेन चक्रे चम्पूमिमां श्रीजिनभद्रसूरिः ॥५४॥ प्रत्यक्षरोचितरसोन्नतचित्रभङ्ग
श्लेषा समुत्सुकविभावितविग्रहादिः । पापीयसो मनसि नाभिनिविष्टदृष्टेः
संपद्यते परकथाभिमता परस्त्री ॥५५॥ परदारैः परकाव्यैर्बहुमानं स्वीकृतैर्विधत्ते यः ।
निन्दा.-ऽलङ्कापुरुषः स्यादेव स मस्तकविहीनः ॥५६॥ १. जैनपरपरायाम् नाम-स्थापना-द्रव्य-भावरूपाणि चत्वारि व्याख्याद्वाराणि अनुयोगद्वाराणि तत्समाना इमे शिष्या इति केवलं संख्यापेक्षया अत्र समानता वोध्या ।
२. [चतुर्ष] ।
३. घनतमस्फीती-अधिकान्धकारवृद्धौ, सुरेखोदयः-द्वितीया-चन्द्ररेखोदयसमानः । अत्र चित्रकाव्यत्वेन छन्दःपूरणाय विसर्गोच्चारणं नानर्थकम् ।
४. पूर्वार्ध कथायाः स्त्रियश्च विशेषणरूपम् ।
५. नाभिनिविष्टदृष्टे:-न अभिनिविष्टदृष्टेः तथा नाभौ निविष्टा दृष्टिर्येन तस्य पापीयसः इत्येवम् अर्थद्वयम् । अत्र 'न'इत्यस्य 'न संपद्यते ?' इत्सवं काक्वा अन्वयः ।
६. निन्द्यः लङ्कापुरुषः तथा निन्द्यः अलं कापुरुषः इत्येवं पदच्छेदद्वयम् । परदारपक्षे यः लङ्कापुरुषः रावणः स मस्तकविहीनो जातः । परकाव्यपक्षे यः परकथाचौरः स मस्तकविहीनः अथवा समस्तकविहीनः । 'समस्त०' इत्यस्य “स मस्त०' इति तथा 'समस्त०' इति पदच्छेदद्वयम् । अलम् इति पर्याप्तम् । परकथाचौरस्य समस्तकविहीनत्वमेव पर्याप्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org