________________
उच्छ्वासः ]
मदनरेखा - आख्यायिका
ध्वस्तदोषान्धकारोऽभूत् तस्य गच्छोदये सदा । श्रीमच्चन्द्रप्रभाचार्यो बिभ्राणः पूर्णचन्द्रताम् ||४८ ॥ या कैन्दर्पं वितेनेऽकृत बहुजनकोपक्षयं याऽप्रशस्यं
या वै-देहीष्टनामा न च कुशलतैया याऽस्खलत् क्वापि मार्गे । या मैध्ये-निष्कलङ्कं स्तुतिपदमभवत् पावने याऽवनेऽस्थात्
सीतावद् यत्क्रियाऽभूत् क्वचिदपि न परं संझनो - मध्यतोऽगात् ॥ ४९॥ व्याकरणाधारं यः शब्दाम्भोजभास्करम् ।
चक्रे कारकमीमांसां नाभेयचरितं तथा ॥५०॥
१३
१. आचा० पक्षे दोषः - चारित्रदूषणानि । चन्द्रपक्षे दोषा - रात्रिः ।
२. अत्र चन्द्रप्रभाचार्यस्य संयमानुष्ठानक्रिया उपमेया सीता च उपमानम् । क्रि० पक्षे कंदर्प वितेने ? न कमपि दर्पं वितेने । सीतापक्षे कन्दर्पं वितेने ? कम् + दर्पम् इति व्यस्तम् तथा कन्दर्पम् अखण्डम् एवं विभागद्वयम् ।
३. क्रि०पक्षे बहुजनकोपक्षयं प्रशस्यम् अकृत-बहुजनानां प्रशस्थं कोपक्षयम् अकृतजनाः कोपरहिता निर्मिता इति । सी० पक्षे जनकोपक्षयम् अकृत - जनकस्य स्वपितुः अप्रशस्यम् उपक्षयम् अकृत । यदा सीतायाः जन्म जातं तदा ज्योतिर्विदा इयं 'जनकक्षयकारिणी' इति सूचितम् इति प्रवादः । अथवा 'कन्दर्प' इत्येवमेकपदविवक्षायाम् अयमर्थः - या संयमानुष्ठान क्रिया बहुजनको क्षयम् बहुजनक्षय-कारकम्, कन्दर्पम् - कामदेवम्, अप्रशस्यम्-मर्हणीयं वितेने । जना एव जनकाः मनुष्या इति । सीतापक्षेऽपि स एव अर्थः सहजतया समुचितः, यतः सीता न कदापि कन्दर्पाधीना जाता अतः तया कन्दर्पः अप्रशस्य एव वितेने इति ।
४. क्रि०पक्षे वै देहीष्टनामा देही - आत्मा वै - एव - सनिश्चयम्, इष्टं नाम यस्याः सा अर्थात् क्रिया आत्मरूपा । अथवा वैदेही स्थितिः - सिद्धस्थितिः सा इष्टं नाम यस्याः सा । संयमक्रियायाः वैदेहीस्थितेः कारणत्वेन सा क्रिया अत्र 'वैदेही' पदेन ग्रहीतव्या । सी० पक्षे 'वैदेही' इत्येवम् इष्टं नाम यस्याः सा ।
५. कर्तुः कुशलतया या क्रिया क्वापि धर्ममार्गे न अस्खलत् । सीता अपि वने मच्छन्ती कापि मार्गे कुशस्य-दर्भस्य-लतया न अस्खलत् ।
६. क्रि०पक्षे मध्ये जनसमाजमध्ये या क्रिया कलङ्करहितं स्वपिपदम् अभवत् । सी०पक्षे मध्येनिष्कलङ्कम्-सुवर्णलङ्काया मध्ये स्तुतिपदम् अभवत् । निष्को हेम - सुवर्णम् । "निष्कः कर्षे हेमनि तत्पले " - (हैमअनेकार्थ० कां० २, श्लो० २७)
७.
क्रि०पक्षे पावने अवने - पवित्रे सर्वजीवरक्षणरूपे प्रेम्णि जीवरक्षणे अस्थात् । भवनम् - प्रीतिः । सी० पक्षे पावने अग्नौ अस्थात्- सीतायाः अग्निप्रवेशः प्रसिद्धः । तथा या वने-अरण्ये अस्थात् । रामेण सह सीता वनवासिनी जाता इति प्रसिद्धम् ।
Jain Education International
८. यथा सीता सद्मनः - गृहात् मध्यतः निस्सृत्य कदाचिदपि परं न अगात् तथा क्रिया, सनोमध्यतः सतः - शुभात् मनसः मध्यतः निस्सृत्य न क्वचिदपि परं परभावम् अगाद् इति ।
1 ष्टमाना न ख ।
For Private & Personal Use Only
www.jainelibrary.org