________________
भ
श्रीजिचभद्रसूरिरचिता द्वीपस्येवादिमस्याओं तस्य शिष्यौ बभूवतुः । नैकत्रवासिनौ कापि लोकानुग्रहकाम्यया ॥४३॥ देवाचार्यस्तयोराद्य आद्यः सर्वमनीषिणाम् । व्याहृतः सिद्धराजेन यः कूर्चालसरस्वती ॥४४॥ तामुत्पाद्य गिरीशसन्ततिमपि प्रायः स्वयं वा-नरै
रन्तेवासिभिरक्षमारकरणव्यापारसारोदयः । . यो विस्तारित्तरवृद्धिसुभगं स्याद्वादरत्नाकर
बध्नाति स्म महोन्नतिप्रियतमां लब्धं परस्वीकृताम् ॥४५॥ प्रथयति मुदं सिद्धाधीशे प्रभावनया स्वयं
वरविधिवशात् पत्यौ यस्मिन् कृते वरमालया । तदलिभिरिवोड्डीनीनैः सरोरुहशङ्कया
सपदि समभूत् तत् कालुण्यं मुखे प्रतिवादिनः ॥४६॥ अन्यः श्रीजिमचन्द्रसूरिसुगुरुः सिद्धान्तवारांनिधि
यव्याख्याप्रतिबुद्धभव्यनिवहैश्चैत्यालयाः कारिताः । शोभन्तेऽवनिमण्डले प्रतिपदं सद्बोधदुग्धोदधे
स्त्रैलोक्यप्रथितोदयाः शुचियशोडिण्डीरपिण्डा इच ॥४७॥ १. यथा आदिमस्य द्वीपस्य-जम्बूद्वीपस्य अर्को सूर्यों न एकत्र वासिनौ तथैव तस्य मुनिचन्द्राचार्यस्य शिष्यों क्वापि स्थाने नैकत्रवासिनौ-क्षेत्रापेक्षया सदा भ्रमणशीलौ इति । एतच्च मुनिव्रताचारापेक्षया ज्ञेयम् ।
२. गिराम् ईशाः गिरीशाः बृहस्पतिसमानाः तादृशां शिष्याणां ताम्-प्रसिद्धाम् , संततिम्
३. अन्ते० पक्षे अक्षम्-इन्द्रियम् , तस्य मारकरणव्यापारसारोदयैः इन्द्रियनिग्रहकारकै मुनिभिः। समापचे अश्लो हि रावणपुत्रः तस्य मारकरणव्यापारसारोदयैः वामरैः । “अक्षम् हृषीकर" "अक्षो........... 'रावणौ”-(हैम अने० कां० २, श्लो० ५६९, ५७०)
४. रामः परस्वीकृतां प्रियतमां लब्धुम् अन्तेवासिभिः वानरैः रत्नाकर बध्नाति रम, तथा देवाचार्यः परस्वीकृतां-प्रतिवादिस्वीकृतां महोन्नतिप्रियतमां लब्धं स्वयं वा अन्तेवासिभिः नरैः स्याद्वादरत्नाकरं 'बध्नाति' स्म । अत्र 'बध्नाति' क्रियापदम् रचनाया अर्थ सूचयति-स्याद्वादरत्नाकरपक्षे बध्नाति इति रचयति । वानरपक्षे ० रत्नाकर बध्नाति इति सेतुबन्धविरचनया बध्नाति ।
५. डिण्डीरो फेनः, डिण्डीरपिण्डाः-फेनपिण्डाः ।
1 कूर्चालसा(शा)रदेत्युक्तो यः स्वयं सिद्धभूभुजा खल । डे प्रतावप्येष पाठः पाठान्तररूपेण सूचितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org