________________
उच्छ्वासः ]
मदनरेखा-आख्यायिका सेदनङ-गता-परहिता सैदा-सदारा-धनैरदीनमनाः । यमुपास्ते गृहिसंततिरनु सवै पुनर्मुनीभ्य ॥३९॥ स्वीकृत्य यं शुक्तिपुटोपमानं
__ मुक्तात्मता प्रापि न केन केन । ज्ञान-क्रियाभ्याससुधासमुद्र
यं मन्यते चेतसि दुर्जनोऽपि ॥४०॥ गच्छस्य तस्य मूषणमणिरजनि प्रवचनामृताम्भोधिः । श्रीमुनिचन्द्राचार्यः सञ्चधुराधरणधौरेयः ।।४१॥ न सुवर्णामलसार-क-विरचनया विरहितानि शास्त्राणि ।
विहितानि येन लोके प्रतिष्ठितानि तु जिनेन्द्रभु(भ)वनानि ॥४२॥ १. गृहिसंततिः सदनं गता-गृहं गता-गृहस्थधर्मवती तथा परहिता अनु-पश्चात् सैव गृहिसंततिः मुनीभूय सदनङ्गतापरहिता-विद्यमानकामतापरहिता-ब्रह्मचर्य त्रिविधं त्रिविधेन समाश्रितवती ।
___२. गृहसंततिः सदा-नित्यम् सदारा-दारसहिता, धनैः अदीनमनाः, अथबा सदासाः दासदासीसहिता ये दाराः तैः सहिता । मुनीभूय गृहिसंततिः सदाराधनैः सताम् गुणविशिष्ठानां सज्जनानाम् आराधनैः अथवा सम्यक्प्रकारेण सदा धर्मस्य आराधनैः अदीनमनाः । 'सदा सदारा अथवा सदासदारा, धनैः अदीनमनाः' तथा 'सदा सदाराधनैः अदीनमनाः' इति त्रिधा पदविभागः। गृहस्थाः मुनयश्च सर्वे एव बृहद्गच्छं समुपासते इति भावः ।
३. गृहस्थाः ते एव अनु-पश्चात् मुनिभावं प्राप्य ।
४. सैव गृहिसंतति पुनः मुनीभूय-इह जन्मनि जन्मान्तरे वा मुनिभावं प्राप्ता सती-यं गच्छम् उपास्ते ।
५. शु० पक्षे मुक्तात्मता-मौक्तिकता । ग० पक्षे सिद्धस्वरूपता ।
६. जि० पक्षे सुवर्णामलसारकस्य सुवर्णमयविहितस्य आमलसारकस्य रचनया । वास्तुशास्त्रे आमलसारको नाम मन्दिरशिखरस्य उपरि स्थाप्यमानः कलशः अभिधीयते । सः अत्र सुवर्णमयः विवक्षितः । शा० पक्षे सुवर्णाः-सुशब्दाः सुशब्दप्रयोक्तारः, अलमसारा:-निर्मलसारमयाः कवयः तेषां विरचनया ।
७. 'न विरहितानि' उभयत्र संबध्यते, अर्थात् रचनया सहितानि । द्वौ नौ सद्भूतमर्थ गमयतः-अत्र 'न' इति एको निषेधः, द्वितीयो निषेधः 'विरहितानि'पदेन दर्शितः, इति द्वौ निषेधौ प्रयुक्तौ इति रचनायाः सत्ता सूचिता ।
८. अत्र ग्रन्थक; 'मन्दिर'स्य अर्थे 'भुवन'शब्दः प्रयुक्तः । अत्र “भवन'शब्दस्य प्रयोगः उचितः, लिपिकारप्रमादेन 'भ' इत्यस्य 'भू' इत्येवं जातं संभवेत् ।
1 °रमुमेव खल । 2 भूता खल । 3 °नि जिने ख ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org