________________
श्रीजिनभद्रसूरिरचिता
[प्रथमः कनिष्ठश्चच्चनामाऽस्ति मध्यो गङ्गाधरः सुधीः । ज्येष्ठस्तु विल्हणस्तेषां यद्वा सर्वविवेकिनाम् ॥३४॥ प्रतिष्ठा बिम्बानां गणधरपदस्थापनविधि
___ मुमुक्षून् प्रव्रज्यामनघमिह मालोत्सवमपि । शिवायैव स्वान्ते धनवितरणैः कारयति यः
परं कीर्तिः साक्षादिह विजयतेऽमुत्र तु शिवम् ॥३५॥ लक्ष्मीपक्ष-विपक्ष एष कतमो न श्रद्दधातीति यं
कार्पण्याचलचूलिकामनुययौ कस्को न भीतो यतः ? । यस्तं त्यागमहो! स्वदक्षिणकरं दत्त्वाऽप्यवैश्य स्वतो
जातानामिह धर्म-कीर्ति-महसां सद्बालधारं व्यधात् ॥३६॥ प्रत्येकबुद्धनमिराजऋषेश्चरित्रं
श्रोतुं सविस्तरमतीव समुत्सुकस्य । श्रीबिल्हणस्य खलु तस्य विशुद्धबुद्धे
रभ्यर्थनाभिरुचितं रुचिरं व्यधायि ॥३७॥ बृहद्गच्छोऽस्ति चक्रीव स्वै रत्नै रक्षितक्षमः ।
ने-यक्षमालया-ऽत्यक्तः सदा-चारे-क्षणोद्योतः ॥३८॥ . १. तेषां बन्धूनां ज्येष्ठः, अथवा सर्वविवेकिनां ज्येष्ठः ।
२. जैनपरम्परायां सुप्रचलितस्य उपधानतपसः परिसमाप्तौ मालापरिधापनात्मकः उत्सवः प्रसिद्धः।
३. यः स्वदक्षिणकरं दत्त्वाऽपि तं त्यागम् अवश्यं सवालधारकं व्यधात् । दत्त्वा तु विसर्जनं स्यात्, न तु धारणम् , परंतु अयं तु स्वतः समुत्पन्नानां धर्म-कीर्ति-महसां त्रयाणां बालानां धारको जातः इति 'अहो' ध्वनिः आश्चर्यसूचकः ।
४. ग० पक्षे दर्शन-ज्ञान-चारित्र-तपो-ध्यानप्रभृतीनि रत्नानि तेंः क्षमा क्षमागुणं रक्षितवान् । च० पक्षे अश्वप्रभृतीनि चतुर्दशरत्नानि तैः क्षमां पृथिवीं रक्षितवान् ।
५. ग० पक्षे नय-क्षमालयाभ्याम् अत्यक्तः-न त्यक्तः गच्छः नयानुसारी तथा क्षमालयःक्षमागृहम् । च० पक्षे यक्षमालया न त्यक्तः-चक्रवर्तिपार्श्व यक्षाः सदा तिष्ठन्ति इति प्रवादः ।।
६. ग० पक्षे सदाचारनिरीक्षणे समिति-गुप्तिरूपे अथवा पिण्ड विशुद्धिप्रभृतौ सदाचारेक्षणे उद्यतः । च० पक्षे सदा-नित्यम् चारेक्षणोद्यतः । राजानो हि चारचक्षुषः-चाराणाम् ईक्षणे उद्यतः अथवा चारेक्षणेषु उद्यतः ।
1 °त्त्वाऽपि व खल । 2 श्यं भृशं डे । 3 समुत्सुकम° डे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org