________________
उच्छ्वासः]
मदनरेखा-आख्यायिका उल्लासितशृङ्गारं जयति प्रतिपाद्य गौरपि रसौघम् । यस्मात् प्रभवति विकृतिः किमत्र चित्रं बुधजनस्य ॥२९॥ शृङ्गारागारं यदि नादावुद्दीपयन्ति रौद्रमपि । शान्तरसरसवतीयं कथं कथा याति परिपाकम् ? ॥३०॥ नवरसहिता वरार्था सुवर्णमणिभूषणा प्रसन्ना च । यदियं कथा-कुमारी तदीक्ष्यतां कोऽपशब्दोऽत्र ? ॥३१॥ पैञ्चसु जीववधादिषु पदेषु शून्यो बभूव लक्षाख्यः । अङ्क इवैको धर्कटबंशे मुक्ताफलप्रकृतिः ॥३२॥ अह्नः सन्ध्यात्रयमिव पुत्रत्रितयं बभूव तस्यापि ।
देवार्चनादिकर्तव्यकारणं सौधुलोकस्य ॥३३॥ १. 'उल्लासितशृङ्गारम्' इति तु उभयपक्षे प्रतीतम् । गो० पक्षे वासनारूपं शृङ्गारम् । 'गो' शब्दस्य 'वाणी'अर्थापेक्षया वा पक्षे तमेव शृङ्गाररसरूपम् ।
२. गौः वाणी च । ३. [रसौघात् ।] ___ गो० पक्षे दुग्धरससमूहम् । वा० पक्षे कविताजन्यरससमूहम् । . ४. गो० पक्षे विकृतिम्-दधि-घृत-नवनीतादिकाम् । वा० पक्षे विकृतिम्-चेतोविकारम् ।
५. यथा अङ्गारेण विना पच्यमाना रसवती न परिपक्का भवति तथा शान्तरसवती कथा आदौ उद्दीपितेन रौद्रेणापि शृङ्गाराङ्गारेण विना परिपाकं कथं यायात् ? इति शृङ्गारनिरूपणं नानुचितमिति व्यज्यते ।
६. क० पक्षे नवभिः शृङ्गारादिभिः रसैः सहिता । कु० पक्षे नवैः रसैः सहिता । ७. क० पक्षे वरः उत्तमः वाच्यः व्यङ्गयो वा अर्थः यस्यां सा । कु० पक्षे वर-पति-प्रयोजना। ८. क० पक्षे 'सुवर्ण -शोभनवर्ण ०-शोभनाक्षर० । कु० पक्षे सुवर्णम्-काञ्चनम् ।।
९. क० पक्षे काव्यदूषणरूपः अपशब्दः । कु० पक्षे अपशब्दः अपकीर्तिरूपः अवर्णवादो वा कोपशब्दो वा कोपशब्देन कविविषयकः कोपशब्दोऽत्र ग्राह्यः अथवा येन कविः कुप्यति तादशः शब्दो ग्राह्यः ।
१०. जीववधः,असत्यम्, स्तेयम् , अब्रह्मचर्यम् , अनाचारो वा, परिग्रहाधिक्यम् इति पञ्चसु । ११. शाहपदभूषितलोकस्य अथवा सज्जनलोकस्य । 1 रसाढयम् डे । 2 यातु प° डे । 3 दीक्षता डे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org