SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ श्रीजिनभद्रसूरिरचिता उन्नतिवशाद् घेना नीरसंपदं विरचयन्ति गर्जन्तः । महानन्दकृते रचयति सुरसं पदं मौनी ॥२५॥ Posts प्रवेशो नीरसत्त्वस्य वारितो यो न वारितः । कुरुते वाकव्याधि हृदि प्राप्तः सभाजनात् ॥२६॥ निर्दोषोऽपि रसः प्रीत्यै व्युत्पत्त्यैव करम्बितः । नानन्दाय यतः कापि चन्द्रश्चन्द्रिकया विना ॥२७॥ महाघोरसंसारं शृङ्गारं वदतीह यः । स महाघोरसंसारं न तरीतुमना ध्रुवम् ॥ २८ ॥ १. [ लक्ष्मीवशात् ] । २. घनशब्दः बहुत्यवाची मेघवाची च । गर्जन्तः घनाः बहवः कवयः उन्नतिवशाद् अभिमानवशाद् घ० पक्षे ऊर्ध्वस्थितियुक्तत्वात् नीरसं (निर् + रसम् नीरसम् ) पदं रसरहितं पदम् उपलक्षणत्वात् कवितापदं विरचयन्ति । घ० पक्षे नीरसंपदं नीरलक्ष्मी जलरूपां लक्ष्मीम् । Jain Education International [ प्रथमः ३. [ गर्व कुर्वन्तः ] । ४. कोऽपि मौनी अगर्जन् कविः सुरसं शोभनरससहितं कवितापदं विरचयति अथवा सुरसंपदं सात्विक वृत्तिं विरचयति । घ० पक्षे सुरसं-सुजलं पदं स्थानम् । सुरसं पदम् तथा सुरसंपदम् इत्येवं द्विधा पदविभागः । ५. निर् + रसत्त्व ० - रसराहित्यम् । नीरसत्त्व - जलस्थितः सत्त्वविशेषः यः भाषायाम् 'वाळो' नाम्ना ख्यात' । ६. जलसकाशात् अथवा सरस्वती सकाशात् । "वारिः सरस्वत्याम्" (हैम अनेका० कां० २, लो० ४६७) । ७. निरुद्धः - अवरुद्ध :- प्रतिषिद्धः । वारितः - जलसकाशाद् जलं पिबतः नीरसत्त्वस्य जलस्थितस्य सत्त्वस्य कस्यचित् प्राणिनः हृदि - हृदये यः प्रवेशः यदि न वारितः - न निरुद्धः तदा स सभाजनात् तत्सत्त्वप्रत्यक्षदर्शनात् बालकव्याधिं 'वाळो' नाम्ना प्रसिद्धं व्याधिं करोति तथैव काव्यस्य हृदये नीरसत्त्वस्य-रसराहित्यस्य प्रवेशः सरस्वती समाश्रयणेन यदि न वारितः तदा सभाजनात्सभास्थितजनात् सभ्यजनेन दर्शनात् कवेः हृदि अवधीरणारूपं व्याधिं कुरुते - वयोरैक्यात् 'बालकोऽयं कविः' 'दूषितोऽयं कविः' इति कवेः अवधीरणा । अत्र 'वारि' पदसूचितमरस्वती रूपो भावः कवेः अतिनैपुण्यं सूचयति, इत्येवं प्रस्तुतपद्यस्य भावः प्रतिभासते । ८. हृदये अथवा काव्यस्य हृदये । ९. अत्र अलंकारशास्त्रप्रसिद्धा व्युत्पत्तिर्ग्राह्या । "व्युत्पत्तिस्तु लोक-शास्त्र-काव्येषु निपुणता " प्र० सू० ८ ! निर्दोषोऽपि रसः यदि व्युत्पत्तिसहितः तदैव प्रीतिजनकः । काव्या० यथा 'चन्द्र:' इत्यादि तु सुस्पष्टम् । १०. 'मह' शब्द : तेजोवाची अर्थात् समहः - सतेजस्कः साग्निकः प्रज्वलित इति । यः पण्डितः शृङ्गारं प्रज्वलितघोरसंसाररूपं वदति--सूचयति स महाघोरसंसारं तरीतुं न पारयति इति भावः । " महो उत्सव - तेजसी " ( अनेका० कां० २, श्लो० ६१३) । For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy