SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ उच्छ्वासः ] मदनरेखा-आख्यायिका भिरिव सत्यावतंसकल्पाभिः, सानो-मध्यवर्तिनीभिः सदाऽलकारसाराभिः संपद्यमानाभ्युदयं कुलबालिकाभिः । नन्दनावलीभिरिव सुरचितमहाभोगाभिः अद्भुतसुरतरूपशोभाभिः, पारिजासमञ्जरीभिरिव सँदामोदसम्पदालिङ्गिताभिः सुरसुन्दा न-खलूनाभिः, चन्दनलताभिरिव १. [ सतीषु मुकुटं तत् ।] यथा गुरुदेशनायां सत्यम् अवतंसकल्पम् उन्नतसमम् तथा कुलस्त्री० सत्येन उन्नततमा अथवा सत्या सती स्त्रिया अर्थात् तदपेक्षया स्वशीलेन उन्नततमा । २. [ सद्-सताम् ।] सद्मनः आवासस्य मध्ये वर्तमाना कुलस्त्री न कापि विना प्रयोजनं बम्भ्रमीति, अथवा सामः प्रशस्तं मनः तस्य मध्ये कुलस्त्री वर्तते-प्रशस्तमनोयुक्ता कुलस्त्री इति भावः । ३. [ सदर्थः शोभनमूल्योऽलङ्कारो विभूषणं यासां ताभिः । अन्यत्र सन् शोभनः, अर्थः अभिधेयः, अलंकारः उपमादिर्यासु ताभिः ।] ४. 'नन्दनावलीभिः' इत्यादितः 'प्रत्युज्जीवितहर०' इत्यादिपदपर्यन्तं पणरमणीवर्णनम् । पणरमणी पण्याङ्गना वेश्या । [नन्दनावलीभिरिव वेश्याभिः ।। ५. [ सुष्टु रचितः सूत्रितो महाभोगो विलेपनादिर्यकाभिः । अन्यत्र सुरैर्देवैश्चितो व्याप्तो महान् आभोगो विस्तारो यासु ताभिः।] नन्दनावलीपक्षे सुरैः चिताः महाभोगा महाविस्तारा यासु ताः । प्रणरमणीपक्षे सु सुष्टु, रचिताः महाभोगाः विशिष्टरूपाणि विलेपन-शृङ्गार-विभूषणपरिधानप्रभृतीनि याभिः ताः । ६. [अत्यद्भुतं सुरतं संभोगरूपं शोभा च यासु ताभिः। अन्यत्र सुरतरूणां कल्पवृक्षाणाम् उपशोभा यासु ताभिः ।] न० पक्षे अद्भुताः सुरतरवः कल्पवृक्षाः तेषाम् उपशोभाभिः उपशोभमानाभिः । पण पक्षे अद्भुतं सुरतं रूपं च तयोः शोभाभिः शोभमानाभिः । पारिजातमार्यो हि सुरतरौ भवन्ति । ___७. [सदा सर्वदा, आमोदः आनन्दः, संपत् लक्ष्मीश्च यस्य, अर्थात् भुजङ्गस्य तेन आलिङ्गिताः । अन्यत्र सत्या शोभनया आमोदसंपदाऽऽलिङ्गिताभिः ।] पारिजातमञ्जरी हि सदा सततम् आमोदसंपदा सुगन्धसंपदा आमोदसंपदा आलिङ्गिता, अथवा सन् शोभन श्वासौ आमोदश्च सदामोदः तस्य संपदा आलिङ्गिता। पण पक्षे पणरमणी आमोदसंपदा सुगन्ध. संपदा हर्षसंपदा वा आलिङ्गिता । "आमोदः गन्ध-हर्षयोः" (-हैम-अनेका० कां० ३, श्लो० ३५३)। ८. सुरसुन्दर्या अपेक्षया म खलु ऊमाभिः, अर्थात् सुरसुन्दरीसमानाभिः तथा लूननवाभिः यासां नखा लूनाः सन्ति ताभिः । वर्धमानानां नखानां छेदनं विशिष्टसौन्दर्यसूचनम् । 'न खलु ऊनाभिः' तथा 'नखलूनाभिः' इति पदविभागः । अत्र दन्तजातादिवत् समासः । _1 सत्यव ख । 2 काराभिः खल। 3 °नावनीभि ल। 4 °भिरना है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy