________________
र
श्रोजिनभद्रसूरिरचिता
[ प्रथमः विचित्रभुजङ्गसङ्गताभिः साधुतापहारकद्रवाभिः निजवदनश्रीभिरिव मध्यस्थितरसज्ञाभिः, सुरञ्जितद्विजराजिभिः निजदन्तपङ्क्तिभिरिवसदशनवदनश्रीकाभिः, परीभूतकलिकोपमारहिताभिः,
१. [ भुजङ्गाः वेश्यापतयः । अन्यत्र सर्पाः । ]
चन्दनलतापक्षे चन्दनलतायां हि भुजङ्गाः संलग्ना विद्यन्ते इति लोकप्रवादः। पण पक्षे भुजङ्गा हि गणिकापतयः तैः संगताः ।
२. [एकत्र साधुतायाः मनुष्यत्वस्य शिष्टताया वा अपहारको भ्रंशको द्रवो हास्यं यास ताभिः । अन्यत्र साधु यथा भवति तथा तापहारकः संतापोच्छेदको द्रवो रसो यासां ताभिः । ]
चन्द० पक्षे चन्दनलतायाः द्रवः चन्दनरसः साधु यथा स्यात् तथा तापस्य हारकः औष्ण्यशमनाय लोके चन्दनद्रवः उपयुज्यते इति विश्रुतम् । पण पक्षे पणरमण्याः द्रवः केलिः क्रीडा लीला वा साधुतां सदाचरणशीलताम् अपहरति इति साधुताऽपहारकः । "केलिः द्रवः परीहासः क्रीडा लीला च नर्म च"-(अभि० चि० कां० ३, श्लो० २१९) ।
अग्रे मध्यस्थितानां लक्षणयाऽऽत्मासक्तानां रसं रागं जानन्तीति ताभिः। अन्यत्र मध्यस्थिता वर्तते अन्तर्लीना रसज्ञा जिह्वा यासां ताभिः । ]
निजवदने रसज्ञा जिह्वा मध्यस्थिता वर्तते अत एव वदनश्रीः शोभते । पण ० पक्षे रसज्ञाः पुरुषाः तासां गृहमध्ये स्थिताः विद्यन्ते एव ।
४. [ सुष्ठु रञ्जिताः अनुरक्तीकृता द्विजराजिाह्मणश्रेणिकाभिः । अन्यत्र रक्तीकृता दन्तश्रेणिर्यासु ताभिः ।]
निजवदने द्विजराजयः दन्तावलयः सुरञ्जिताः विद्यन्ते । पण ० पक्षे द्विजराजयः विप्र-क्षत्रियवैश्यसमूहाः सुरञ्जिताः अथवा दन्तश्रेणयः शोभनेन रागेण अथवा सुवर्णरेखया रक्ताः विद्यन्ते ।
५. [ भोजनस्य वस्त्रस्य श्रीः शोभा यासां ताभिः । ]
निजदन्तपङ्क्तौ वदने मुखे सत् शोभनम् अशनम् अन्नम् ओदनो वा तस्य श्रीः शोभा विद्यते ।
पण पक्षे सद् अशनम् अन्नम् वा शोभनः स्वादः । “भक्तम् अन्नम् कूरम्...ओदनः अशनम्'-(अभि० चि० कां० ३, श्लो० ५९), "स्वदनं स्वादनम् अशनम् ”-(अभि० चिं० कां० ३, श्लो० ८७) तथा वदनम् मुखम् , पणरमण्यो हि विशेषेण वदनश्रियं धारयन्ति, अथवा वदनम् वचनम् , तस्य श्रीः-शोभा विद्यते । पणरमण्यो हि विशेषतः मधुरवचना भवन्ति ।
६. द्विजराजयः क्षत्रियराजयः । “द्विजः विप्र-क्षत्रिययोवैश्ये दन्ते”-(हैम अनेका० कां० २, श्लो० ७१)। क्षत्रिया हि पराभवरहिताः कलिकोपरहिता वारणरहिताश्च विद्यन्ते 'मा'पदं वारणवाचकम् , "मा लक्ष्म्यां वारणे"-(हैम अनेका० कां० २, श्लो० ११)। पण पक्षे पराय उत्कृष्टाय, अभूताय असत्याय तथा कलये क्लेशाय कोपाय माराय वा हिताः पणरमण्यः इति प्रतीतम् । अत्र 'पर'शब्दः 'अभूत'शब्दश्च कलि-कोपयोरपि विशेषणं नानुचितम् ।
1 °वसन ल । 2 °भिः प्रेततमा डे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org