________________
२३
उच्छ्वासः ]
मदनरेखा-आख्यायिका त्रियामाभिरिव राजकैरवभासमानाभिस्तारैतारालङ्कारसाराभिः, सकलकलाभिरपि मृदुमधुरभाषिणीभिः, अङ्गरागचनाभिरेप्यनङ्गरागचङ्गाभिः, प्रत्युज्जीवितहरनयनदहनेन्धनीभूतरतिरमणाभिः पणरमणीभिरपहस्त्यमानासमानधनतरुणजनधर्मकर्मोत्कण्ठम् । विध्वस्तसमस्तदोषान्धकारैरनङ्गीकृतदुरिमभिवानीहावरुद्धचित्तविकारगिरीशाकारैरनगारे
१. [ राजकैः-नृपसमूहै: । ]
'त्रियामाभिः' इत्यनेनापि पणरमणीवर्णनम् । राजकैरवं हि चन्द्रविकासि कमलम् , तैः त्रियामाः रात्रयः अवभासमानाः भवन्ति । पण पक्षे पणरमण्यो हि राजकैः राजपुत्रसमूहै: अवभासमाना भवन्ति । राजकं राजपुत्रसमूहः, “राजपुत्रकं राजन्यकं राजकम्”-(अभि० चि० कां० ६, श्लो० ५३)
२. [ताराः उडवः ।]
ताराः निर्मलाः ताराः तारकरूपाः नक्षत्रादयः ता एव अलङ्कारसारा यासु ताभिः त्रियामाभिः । पण पक्षे ताराः निर्मलाः तारकवत् शोभनरूपाः प्रकाशवन्तः अलंकारसाराः श्रेष्ठाभूषणानि यासां ताभिः पणरमणीभिः । पणरमण्यो हि विविधानि आभूषणानि चाकचिक्ययुक्तानि हीरक रत्न-मणिसुवर्णमयानि धारयन्ति इति प्रसिद्धम् ।
३. या मृदु मधुरं च भाषन्ते ताः कलकलः कोलाहलः तेन सहिताः कथम् ? इति विरोधः, "कोलाहलः कलकल:"-(अभि० चि० कां० ६, श्लो० ४०)। सकलाः कलाः यासु ताः सकलकलाः ताभिः इति विरोधपरिहारः । पणरमण्यो हि सकलकलानिपुणा इति वात्स्यायनकामसूत्रकारः ।
४. [ अङ्गराग० विलेपनेन ।] पणरमण्यो हि अङ्गरागेण चङ्गाः विद्यन्ते ।
५. याश्च अङ्गरागेण चङ्गाः ताः कथम् अनङ्गरागचङ्गा० अनङ्गम् अङ्गाभावः तस्य रागेण चङ्गाः ? इति विरोधः । विरोधपरिहाराय अनङ्गः कामदेवः । पणरमण्यो हि सदा कामदेवरागेण चलाः इति विश्रुतम् ।
६. [ प्रत्युज्जीवितः पुनर्जीवितः, हरनयनदहने-महेश्वरलोचनवैश्वानरे इन्धनीभूतो रतिरमणः कामो यकाभ्यः ताभिः ।]
यद्यपि हरनयनेन रतिरमणः कामदेवः दग्धः, तथापि पणरमणीभिः सः दग्धोऽपि रतिरमणः . प्रत्युज्जीवितः जीवनयुक्तः कृतः इति भावः ।
७. ये असमानधनाः असाधारणलक्ष्मीपतयः तरुणजनाः तेषां धर्मकर्मणः उत्कण्ठा पणरमणीभिः अपहस्त्यमानाः यस्मिन् नगरे तत् । पणरमणीसहवासेन धर्मकर्मणः उत्कण्ठा अपहस्तिता तिरस्कृता भवति, अथवा धर्मकर्मणः धनुष्कर्मणः वीरतासूचकस्य धनुष्फर्मणः धनुःसंचालनरूपा तदुस्कण्ठारूपा वा प्रवृत्तिः पणरमणीसहचारेण कुण्ठा भवति इत्यपि भावो बोध्यः ।
८. विध्वस्त० इत्यादिना अनगारवर्णनम् ।
[अनगारैर्मुनिभिः समुल्लासितस्वर्गापवर्गमार्ग पुरम् , किंविशिष्टैः ? गिरीशाकारैर्महेश्वरसदृशैः । अग्रे विध्वस्तं समस्त दोषा एव अन्धकारं यैः । अन्यत्र विधुना शीर्षस्थितचन्द्रसात्कृत्वा अस्तं विक्षिप्तं दोषाया रजन्या अन्धकारं यैः । आदौ अनङ्गीकृतो निरङ्गो विहितो दग्धो दुर्वारो मारो यैः ।
1 °भिरनङ्ग डे । 2 धर्मोत्क ख ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org