________________
श्रीजिनभद्रसूरिरचिता
1
निरस्तदर्पकोपमानसन्तानतया समुल्लासितस्वर्गापवर्गमार्गम् । अपि च, ईष्टकान्तोन्नतश्रीकाः सर्वदा - रूपशोभिताः ।
सदा - रम्भान्विता यत्र रम्यहर्म्यसमा नराः ॥ ५८ ॥ रामपमा रामा भान्ति सद्रूपशोभिताः ।
सदाचारकृतच्छायाः सदा-ना-रङ्गसङ्गताः ॥ ५९ ॥
२४
अनगार. गिरीशयोः उपमानोपमेयभावोऽत्र वर्णितः, अनगाराः उपमेयाः, गिरीशो हि उपमानम् । गिरीशो हि महादेवः - हरः - शङ्करः अत्र बोध्यः । चन्द्रमौलिहिं गिरीशः स्वमस्तक स्थितचन्द्रप्रभया दोषायाः रात्र्याः अन्धकारं विध्वस्तं कृतवान् तथा अनगारा जैनमुनयोऽपि समस्तान् दोषान् स्वीयसंयमसाधनया विध्वस्तान् कृतवन्तः । यथा हि गिरीशेन दुर्वारो मारः कामदेवः अनङ्गीकृतः अङ्गरहितः कृतः । तथैव अनगारैः अपि दुर्वारमारः अनङ्गीकृतः न अङ्गीकृतः न स्वीकृतः अर्थात् पराजित एव । " मारः अनङ्गे" - (हैम अनेका० कां० २, श्लो० ४५८ )। ९. [ भवे संसारे अनीहया अनिच्छया, अवरुद्ध निषिद्धश्चित्तविकारो यैस्तैः । भवान्या गौर्या हावैः कृत्वा रुद्धो व्याप्तश्चित्ते विकारो यैः । कया कृत्वा ? निरस्ता निर्णाशिता दर्पकोपयोरहंकारक्रोधयर्या मानसंतानता प्रमाणपरंपरता तया । अन्यत्र निरस्ता विक्षिप्ता दर्पस्य कामस्य या उपमानसंतानता तथा ईश्वरेण कामस्य दग्धत्वात् । ]
यथा गिरीशः भवान्याः हावे हावभावे सत्यपि स्वचित्तविकारं रुद्धवान् एवमेव अनगारा अपि भवस्य संसारस्य अनीहा अवाञ्छा तया स्वकीयं चित्तविकारं अवरुद्धवन्तः ।
१. अनगारैः दर्पस्य कोपस्य मानस्य च संतान :- विस्तारः निरस्तः, ततश्च एतद् नगरं समुल्लासितस्वर्गमार्गम् तथा समुल्लासिताऽपवर्गमार्गे संजातम् इति आशयः ।
[ प्रथमः
२. 'इष्टकान्त ० ' इत्यादिना नगरस्थनराणां वर्णनम्, तच्च उपमानरूपहर्म्यवर्णनेन विहितं ग्रन्थकारेण, यत्र नराः हर्म्याणि च साम्यं धारयन्ति, तथाहि - हर्म्याणि इष्टकान्तेन उन्नतशोभायुक्तानि इष्टका हि भाषायाम् 'इंट' नाम्ना प्रसिद्धाः, इष्टकानाम् अन्तेन अन्तिमभागेन हर्म्याणां शोभा उन्नता दृश्यते, इष्टकाभिरेव हर्म्याणि उन्नतानि जायन्ते । हर्म्यपक्षे इष्टका + अन्त० इति पदविभागः । हर्म्यं हि धनिनां गृहम् । " हयै तु धनिनां गृहम् " - ( अभि० चिं० कां ० ४, श्लो० ५९ ) । "हरति मनः इति हर्म्यम् " इति हेमचन्द्रः - ( अभिधानचिन्तामणिवृत्तौ) नराः इष्टा कान्ता उन्नता श्रीः येषां ते इष्टकान्तोन्नतश्रीकाः ।
३. हर्म्यपक्षे सर्वाणि सर्वप्रकाराणि दारूणि काष्ठानि तैः उपशोभितानि हर्म्याणि । नरपक्षे ते सर्वदा रूपशोभिताः इति स्पष्टम् । हर्म्यपक्षे सर्वदारु + उप० इत्यादिकं पदं समस्तम् । नरपक्षे सर्वदा रूपशो० इत्यादि पदद्वयम् ।
४. ह० पक्षे सदा सततम्, रम्भाभिः रम्भासमानाभिः अङ्गनाभिः अन्विता इति संबन्धो ज्ञेयः अथवा रम्या हिं कदल्यः- हर्म्याणामङ्गणे कदल्यो विद्यन्ते । अत्र 'सदा रम्भा०' इत्येवं पदविभागः । नरपक्षे सदारम्भाः सत्प्रवृत्तयः ताभिः अन्विताः । अत्र 'सदारम्भा०' इति एकं समस्तं पदम् । ५. 'यत्रारामोपमा० इत्यादिना उपमानरूप 'आराम' तुलनया नगरस्थनारीणां वर्णनम् । तथाहि यत्र नगरे रामाः आरामोपमाः, आरामाः उद्यानानि । आरामपक्षे स+दु+उपशोभित० डुभिः सहिताः, उपशोभिताश्च । रामापक्षे सद्+रूप+शोभित० सपेण शोभिताः । आ० पक्षे
Jain Education International
,
For Private & Personal Use Only
www.jainelibrary.org