________________
उच्छ्वासः ]
मदनरेखा-आख्यायिका धारयत्यधमणभं यत् समुद्रमणीगणम् । प्राकारः प्रतिभू रुद्धोऽन्यथा किं परिखाऽब्धिना ॥६॥ यत्र दत्ते नवा यूनां नामोदं काननश्रिया । तिरस्कारं तु वृद्धस्य राज्ञोऽपि सुपयोधरा ॥ ६१ ॥ सैन्महे-भवने यन्त्र प्रभाविनयमन्दिरम् ।
अनेकशीभया-येव न-रामा-रहितोदयाः ॥ ६२ ॥ सदा+अचार+कृत+छाया सदा अचारेण अकम्पनेन छायां कृतवन्तः सदाचारकृतच्छायाः । रा० पक्षे सदा आचारेण आचाररक्षणेन अथवा सता विद्यमानेन अथवा सता शोभनेन आचारेण कृता छाया कान्तिर्यासां ताः सदाचारकृतच्छायाः । आ०पक्षे सदा नारङ्गसंगताः नारङ्गः तन्नाम्ना फलम् तेन संगता आरामाः। रा०पक्षे सदाना रङ्गसंगताः। दानसहिताः दानशीलाः, रङ्गसंगताः नृत्यसंगताच ।
१. [धारयति-देयं करोति । अधमर्णाभम्-अग्राहकसदृशम् । यत् पुरम् । समुद्रमणीगणं समुद्रस्य रत्नसमूहम् । प्राकारः शालः । प्रतिभूः प्रभुरिव । रुद्धः नियन्त्रितः परिखान्याजात् ।]
इदं नगरं परिखाधिना सर्वतः बेष्टितम् रुद्धमिव आभाति । अस्य नगरस्य पार्श्वे परिखाब्धिः कथं समायातः ? इति प्रश्न उत्थिते ग्रन्थकार एव समाधत्ते-यतः अनेन नगरेण समुद्रमणीगणः समुद्रस्थरत्नसमूहः समुद्रपार्थात् नियतकालार्थ नगरशोभानिमित्तं गृहीतः स समुद्रस्य प्रति अर्पणीय एव यथाविधि, अस्याः प्रतिज्ञायाः पालमार्थ नगरस्य प्राकारः प्रतिभूर्जातः-'जामीन' इति भाषायां प्रतिभूशब्दपर्यायः-संप्राप्तेऽपि अवधौ समुद्रमणीगणः न प्रत्यर्प्यते नगरेण अतः परिखाधिना प्रतिभूरूपः प्राकारः रुद्धः इति भावः । नगरस्य सर्वतः जलभृता परिखा वर्तते । नगरे च रमणीगणः समुत् प्रमोदसहितः, अतः इत्येवंवर्णनम् ।
२. [यत्र नगरे । आमोद परिमलम् । आनननिया मुखलक्ष्म्या । तिरस्कारम् अवज्ञाम् । वृद्धस्य चन्द्रस्य । सुपयोधरा नवा तरुणी; सजलभूः ।]
, 'नवा सुपयोधरा' नवा नूतना, सुपयोधरा सुस्तनी, तरुणी काननश्रिया स्वसज्जितगृहलक्ष्म्या यूनां युवकजनानाम् आमोदं हर्षम् , न दत्ते ? अपि तु दत्ते एव इति काकुशैल्या प्रभः । सा एव तरुणी वृद्धस्य राज्ञोऽपि नृपस्यापि तिरस्कारं दत्ते-सा नवा तरुणी राज्ञोऽपि अधीनता न भजति अपि तु तादृशस्य वृद्धस्य कामुकस्य राज्ञोऽपि तिरस्कारमेव दत्ते, इत्येवं पुरतरुणीनां शीलस्य उज्ज्वलता वर्णिता । अथवा सुपयोधरा सुजला भूमिः काननश्रिया वनलम्या वायूनां पवनानाम् आमोदं परिमलं न दत्ते इति न, अपि तु दत्त एव-वनलक्ष्म्या आमोदं परिमलं प्राप्ता वायवः सवै सुरभि कुर्वन्ति इति भावः । अनेन भूमेरपि बनलक्ष्म्या अपि उत्कर्षः ख्यापितः । 'नवायूनाम्' इत्यस्य युवकपक्षे 'नवा यूनाम् ' इति विभागः ! वायुपक्षे न वायूनाम् इति विभागः । “काननं तु ब्रह्मास्ये विपिने गृहे'-(हैम अनेका० कां० ३, श्लो० ३९४) तथा "आमोदो गन्ध-हर्षयोः" -(हैम अनेका० कां० ३, श्लो० ३५३)। .
३. [ सन्मेहे तानि विद्यमानमहागजानि वनानि आरामाणि यत्र पुरे प्रभाविणो नयस्य नीतेर्मन्दिरम् आवासो नराः पुरुषाः अनेकशोऽनेकप्रकारम् अभयायेव निर्भयायेव । मारस्य कामस्य
1 सम्महे डे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org