________________
श्रोजिनभद्रसूरिरचिती यत्रोढायां वृषे-ऽपापे सदारा-सकला-लसा । नु/ः स्त्रीणां पुनश्चैत्ये सदा रासकलालसा ।। ६३ ।। अस्मन्मुखमकलङ्क निरीक्ष्य मा पीपतन्मृगं चन्द्रः । इति करुणयेव विदधति नीरङ्गी यत्र कुलवध्वः ।। ६४ ॥ चटकानवेक्ष्य विशतो यत्र प्रासादशिखरहरिवदने ।
त्यजतीन्दुमगोऽरिभयं न चेन्दुशङ्कां मुखेः स्त्रीणाम् ।। ६५ ।। हि अनुकूल उदयो येषां ते तथा । यत्र पुरे रामाः स्त्रियो न नैव रहितोदयाः तावतोच्छ्याः । क? सन्महे सोत्सवे भवने गृहे तथा प्रमायाः कान्तेविनयस्य च मन्दिरम् आवासाः । तथानेक शोभया प्रभूतरम्यत्वेन येव लक्ष्मीरिव 'या' शब्दोऽत्र लक्ष्मीवाचकः ।] ('सन्मह इमत्रने' 'नरी मारहितोदयाः' 'न रामा रहितोदयाः' इत्येवं पदविभागं कृत्वा टिप्पणीयोजना बोच्या)।
यत्र पुरे सन्महे सदुत्सवे तथा भवने गृहे रामाः प्रभाविनयमन्दिरम् प्रभां च विनयश्च प्रभा-विनयौ तयोः मन्दिरम् , अथवा प्रभावि चं नयमन्दिरं च प्रभाविनयमन्दिरम् । अनेकशोभया अनेकप्रकारया शोभया अथवा अनेकशः अभया निर्भयाः रामाः स्त्रियः न रहितोदयाः किन्तु उदयसहिताः । अनेकशोभया-अनेकशः अभयाः-इत्यपि विभागः ।
१. [यत्र पुरे नुः पुरुषस्य, धीः बुद्धिः, ऊढायां परिणी तमार्यायो, सदारा सकलत्रा, धृषे धर्म, सकला सहिता । पापे कल्मषे, अलसा अफरणशीला, स्त्रीणां पुनः धीः बुद्धिा, चैत्ये जिनभवने, सदा नित्यम् , रासकलालसा हल्लीसकलम्पटा । ]
यत्र नगरे नुः पुरुषस्य धीः बुद्धिः ऊढायां परिणीतायां माययाम् । अपाये निष्पापे च वृषे धर्मे अर्थात् धर्मस्थाने सदा रासकला रासक्रीडाकलालसा उलासयुक्ता, अथवा पपि अलसी धीः । स्त्रीणी पुनः धीः चैत्ये रासके रासककरणे लालसा पुनः पुनः अभिलाषयुक्ती । रास नर्तकीनां वृन्दं तालेन लयेन च समन्वितं प्रयुज्यते । तथाहि
“अनेकनर्तकीयोग्यं चित्रताललयाऽन्वितम् । आचतुःषष्टियुगलाद रासकं मसृणोद्धतम् ॥”-(काव्यानुशासनम् , अ० ८, सू० ४.)
२. नीरङ्गी मुखाच्छादनसाधनवस्त्ररूपम् उपकरणम् स्त्रियः स नो बहिनिर्गमे उपयुञ्ज ते। अकलङ्ग स्वमुख मृगपातकारणं न स्यात् इति हेतोः यत्रत्याः कुलवध्वः स्वकीयं मुखं समाच्छादयन्ति इति आशयः ।
३. प्रातादशिखरहरिवदने जिनमन्दिरशिखररचितसिंहवदने अथवा राजमहालयशिखरस्थितसिंहवदने, “प्रासादो देव-भूपानाम् "-(अभि० चिं० कां० ४, श्लो ५९.)। चटकान् 'चकलो' इति नाम्ना गृर्जरभाषायां प्रसिद्वान् पक्षिविशेषान् । न चेन्दु ० यद्यपि इन्दुमृगः अरिभयं त्यजति परन्तुं स्त्रीणां मुग्वैः इन्दुशङ्कां न त्यजति ।
1 बुद्धीः डे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org